१९७ तुमुन्नधिकार:
१०. वृष्टमात्रे देवेऽभितो विरोतुमारभन्त भेकाः ।
११. उत्तिष्ठ वत्स ! वयस्यस्ते त्वामाह्वयितुमुपागतः ।
१२. मध्यमासनार्हो य उत्तमासनं वाञ्छत्यध्यास्तुं स उपहास्यतां
याति ।
१३. सर्वो जीवितं सुखं व्यत्यापयितुमिच्छति न च पारयति ।
१४. यः शास्त्रार्थं वेत्तुं समर्थोऽपि न तत्र बाढं प्रयस्यति न स बहु
वेद ।
१५. अहो कालमहिमा । शिष्या अपि गुरुविरोधमाचरितुं न शङ्कन्ते ।
१६. परस्य गुणान् स्वस्य दोषांश्चाङ्गीकर्तुं न कामपि क्षतिमीक्षामहे ।
१७. भृत्यं विपणीत इध्मान्याहर्तुमादिशति स्वामी ।
१८. वाष्पश्च न ददात्येनां द्रष्टुं चित्रगतामपि (शाकु० ६।२२) ।
१०. रौतिरुदात्त: । ऊदृदन्तैयौंतिरुक्ष्णुशोस्नुनुक्षुश्विडीङ्श्रिभिः । वृङ्वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥ इति कारिकायामुदात्तेषु पाठात् । तेन विरवितुमित्येव साधु । ११. ह्वेञ् स्पर्धायां शब्दे चेति घातुरनदात्तः आदेच उपदेश इत्यात्वे आङ्युपसर्गे आह्वातुमिति रूपम् । १२. आस उपवेशन उदात्तः । तेन अध्यासितुमित्येव युक्तम् । १३. व्यतियापयितुमित्येव साधु । १४. विद् ज्ञाने इति सेट्कः । तेन वेदितुमित्येव साधु । १५. आचरितुमित्यत्र केन तुमुन् इति तावद्विमर्ष्टव्यम् । तुमुण्ण्वुला- वित्यादिना सूत्रेणेति चेन्न । न ह्यत्र शङ्कत इति क्रियार्था क्रियोपपदमस्ति । पुष्पाण्याहर्तुमुपवनं यातीत्यत्र यातीति क्रिया यथा । तेन गुरुविरोधाचरणान्न शङ्कन्ते (न बिभ्यति) इत्येवं वक्तव्यम् । विमतिश्चेदुपपत्तिः प्रदर्श्यताम् । १६. अत्रापि तुमुन्दुर्लभः । परस्य गुणानां स्वस्य दोषाणां चाङ्गीकारे इत्याद्येव साधु स्यात् १७. भिन्नकर्तृकत्वे तुमुनं न सहन्ते शिष्टा इत्यसकृदुक्तम् । तेनेध्मा- न्याहरेत्यादिशतीति वक्तव्यम् । १८. तुमुण्ण्वुलाविति सूत्रविहित एष तुमुन् । परं स समानकर्तृकत्व एवेष्यते इति दीक्षितप्रभृतयः । तेनायं चिन्त्यस्तुमुनः प्रयोगः ।