२०२ शब्दापशन्दविवेके
८. जागृतोऽहमात्मनि ब्रह्मणि । नहीदानीं विडम्बयितुमर्हति मां
माया वराकी ।
९. प्रथमोऽपराध इति मृषितो गुरुणा । तेन द्वितीयं मास्म चारीः ।
१०. वर्तितं पारायणं छन्दसां देवदत्तेन । इदानीं पाणिनीयाष्टकं
प्रपठति ।
११. तन्त्रके१ असीविते वाससी वसित्वा यज्ञवेद्यामासीदेत् ।
१२. नवेन तेन नृपेण नूतनानि दुर्गाणि कृतानि खानिताश्च परिखाः ।
१३. नदीमातृको देशः, धार्मिकश्च नृपतिस्तथापि दरिद्राणा: प्रजा
इत्याश्चर्यम् ।
१४. संशातव्रतो हि तिग्मतपा भवतीति केचित्, चीर्णव्रत इत्यपरे ।
१५. नूनं धृष्टोऽसि यदर्थविधुरं बहु विप्रलप्तं त्वया ।
१६. यतितं मया चिराय व्याकरणमवगन्तुं न च पारितम् । तत्र मे
प्रज्ञापराधो न शास्त्रापराधः ।
८. जाग्रोऽविचिणणल्ङित्सु इति गुणे जागरित इत्येव साधु ।
९. मृषस्तितिक्षायामिति निष्ठायां कित्त्वनिषेधे गुणे मर्षित इति
साधु ।
१० णेरध्ययने वृत्तमिति वृतेनिष्ठायामध्ययनेऽर्थे इडभावो णिलुक्
च निपातितौ । तेन वृत्तमिति साधु ।
११. षिवु तन्तुसन्ताने निष्ठायां च्छ्वोः शूडनुनासिके चेति वकारस्योठि
यस्य विभाषेति इण्निषेधे अस्यूते इत्येव साधु ।
१२. खानिता इति णिचि क्ते साधु ।
१३. दरिद्रिता इत्येव साधु । आर्धधातुके विवक्षित एवालोपस्य
विधानात् । दरिद्राणमित्यपशब्दः ।
१४. शाच्छोरन्यतरस्यामिति तकारादौ किति इकारादेशो वा भवति
शितम् । शातम् । निशातम् । श्यतेरित्त्वं व्रते नित्यमिति वक्तव्यम्
इति संशितव्रत इत्येव साधु । चीर्णमिति भारतादिषु बहुलं
प्रयुक्तमप्यपाणिनीयम् । चरितमित्येव तु पाणिनीयम् ।
१५. धृषिशसी वैयात्य इतीडभावे धृष्ट इति साधु । लप व्यक्तायां
वाचीति नित्यं सेट् । तेन विप्रलपितमित्येव साधु
१६. यती प्रयत्न इति धातुः । श्वीदितो निष्ठायामितीण्निषेधाद्
यत्तमित्येव साधु ।१. तन्त्रादचिरापहृते नूतने इत्यर्थः ।