भावकणोस्तद्धिताः २४१
७. शक्योऽयमर्थः परिहर्तुम् । नास्य ममावश्यकता ।
८. कौमारकेऽपि गिरिवद्गुरुतां दधान उद्धतगतिरेष कः ?
९. शिरीषे यत्सौकुमारकं निसर्गसिद्धं न तत्कुसुमान्तरे ।
१०. कुरुपाण्डवानां भविष्यन्तीमाजिं१ वारयितुं सन्धि च कारयितुं
भगवान् वासुदेवः स्वयं दूत्यमुपेयिवान् ।
११. अयमहं भवन्तमनुरुन्धानश्चिरं मौनतामालम्बे ।
१२. आदिमध्यावसानेषु भजसा यन्ति गौरवम् । यरता लाधवं यान्ति
मनौ तु गुरुलाघवम्॥
१३. गृहसम्बन्धीनि कार्याणि१ वैयाकुलीमनासेव्य नैयूनीं२ च विव-
र्ज्य निर्वर्त्यानि ।
७. अवश्यम्भाव आवश्यकम् । मनोज्ञादित्वाद्वुञ् । अव्ययानां भमात्रे
टिलोपः । भावस्य वुञाभिहितत्वात्प्रत्ययान्तरस्य तल: प्रसङ्ग एव
नास्तीत्यावश्यकतेत्यपशब्दः ।
८. कौमारमेव कौमारकम् । स्वार्थे कन् । कौमारव्युत्पत्तिस्तूक्ता ।
९. गुणवचनेत्यादिना भावे सौकुमार्यमित्येव साधु ।
१०. दूतवणिग्भ्यां चेति काशिका । तेन यप्रत्यये दूत्यमिति साधु ।
गुरणवचनेत्यादिना यञि तु दौत्यमित्यपि भवति ।
११. मुनेर्भावो मौनम् । इगन्ताच्च लघुपूर्वादित्यण् । उक्तो भावो
ऽणेत्यपरः प्रत्ययो नापेक्ष्यते । तेन मौनतेत्यपशब्दः ।
१२. इगन्ताच्च लघुपूर्वादित्यणि गौरवमिति साधु । गुरुलघुनोर्भाव
इत्यर्थे द्वन्द्व मनोज्ञादिभ्यश्चेति वुञा भाव्यम् । पर्यायशब्दानां
गुरुलाघवचिन्ता नास्तीति भाष्यप्रयोगात् साधु । अण् प्रत्ययः ।
उत्तरपदवृद्धिश्च ।
१३. व्याकुलस्य भावः वैयाकुल्यम् । ष्यञ् । स्त्रीत्वविवक्षायां षित्वा-
न्ङीषि वैयाकुलीति सिध्यति । तथापि प्रयोगो नास्तीति परि-
हरणीयमिदं शब्दरूपम् । एवं न्यूनस्य भावो नैयून्यं स्त्रियां नैयू-
नीति रूपसाधुत्वेऽपि न व्यवहार्यं शिष्टानुग्रहोस्य नास्तीति । नहि
वैयाकरणः शब्दाः क्रियन्ते कुलालेन घटा इव ।१- युद्धम् । आजि: स्त्रियाम् ।