दुर्घटासमर्थसमासः २८७
४७. अत्र देशे निरान्तरयां वृद्धयां सत्यां विंशतिवर्षादूर्ध्वं सर्वं साधू
भविष्यति ।
४८. स नक्तं दिनं (दिवानिशं) परिश्राम्यति न च सिध्यति । बाढं मन्दो
१भविष्यति ।
४९. क्व वा वेदानां शास्त्राणां वां तुलाधिरूढ पुस्तकम् ?
५०. अद्यतनभूतादिकतिचिल्लकारैर्ज्ञातैर्न खलु वाङ्मयं ज्ञातं भवति ।
५१. गते समरे परस्सहस्राः प्रवीरा: सर्वदार्थं वीरशय्यामध्यरत ।
५२. कतिपयेऽस्य चान्येषां कवीनां च श्लोकाः सनामग्राहमिहोदाह्रि-
यन्ते ।
५३. पिब मौकुन्द पदमकरन्दम् ।
स्त्रियाः पुंवद् इति योगविभागात्परशब्दे पुंवत्त्वम् । उपसर्जनं
पूर्वमिति पञ्चम्यन्तस्य शतशब्दस्य पूर्वनिपात: प्राप्तः । राज-
दन्तादित्वान्न भवति ।
४७. विंशतेर्वर्षेभ्य इत्येवं व्यासेन वक्तव्यम् । उक्तोऽत्र हेतुः ।
४८. नक्तमित्यधिकरणवृत्तिं । तेन नक्तंदिनमिति द्वन्द्वो नोपपद्यते ।
एवमेव दिवानिशमिति समासोप्यनुपपन्नः । नक्तन्दिवमिति तु
साधु । प्रचतुरविचतुरेत्यादिना निपातनात् । अहोरात्रमिति वा
वक्तव्यम् ।
४९. तुलाधिरूढमित्यसमर्थसमास: । तुलामधिरूढमित्येव शोभनम् ।
५०. अनद्यतनभूतादिकतिचिल्लकारैरिति दुश्लिष्टं पदकम्बकम् ।
चिच्छब्दस्तावन्न क्वचिदपि समासमनुप्रविशन्दृष्टः । अनद्यतनभू-
ताद्यर्थे कतिभिश्चिल्लकारैरिति वक्तव्यम् । सर्वत्र चिच्चनौ
पृथक् पदे भवतः ।
५१ सर्वदार्थमित्यपशब्दः। सर्वदेति तद्धितश्चासर्वविभक्तिरित्यव्य-
यम् अधिकरणवृत्ति । सर्वस्मिन्काल इति च तदर्थः । तस्यार्थं
शब्देन समासोनुपपन्नः । सर्वकालमिति वक्तव्यम् ।
५२. नामग्राहमिति नाम्न्यादिशिग्रहोरिति णमुलि रूपम् । उपपद
समासः । तत्र सहशब्देन समासान्तरमनर्थकम् ।
५३. पदमकरन्दम् इत्यसमर्थसमासः । मुकुन्दस्येमे पदे मौकुन्दे ।
पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुष्वित्यमरः ।