२२४ शब्दापशब्दविवेके
३१. क्लिश्यतेऽसौ नाडीव्रणेन । नेदमद्यापि संरोहति ।
३२. स्वरपि मे न मनोहर उत्त्रसत्पृषतलोचनया१ रहितस्त्वया ।
३३. अमित्रा मित्ररूपेयं पाणिगृहीती मम । (श्रीरामायणे)
३४. इमानि कन्दराणि श्वापदाकुलानीति भयं जनयन्ति यात्रिकाणाम् ।
३५. जर्जरिता गृहस्थूणेति पित्सति पटलम्२ ।
३६. अपीयं खे सम्पतन्ती बलाकपङि्क्तदृष्टेस्ते गोचरा ?
३७. अहो रमणीया अस्य बर्हिणस्य३ बर्हाः४ । प्रत्युप्यत५ इवात्र
दृष्टि: ।
३८. वर्तमाना हिन्दवः सभ्यानामार्याणां सन्तानानि सन्तीति लोकस्या-
हता भवन्ति भूयसा ।
३१. नाड्यपजनोपपदानि व्रणाङ्गपदानीति पंल्लिङ्गाधिकारे
लिङ्गानुशासने पठितम् । तेन व्रणशब्दस्य पुन्नपुंसकत्वेपि
नाडीव्रणस्य पुंस्त्वमेव ।
३२. स्वरिति स्वर्गपर्यायवचनम् । स्वरादिनिपातमव्ययमित्यव्ययसंज्ञा ।
क्रियाव्ययानां भेदकानि क्लीबानि भवन्तीति मनोहरम्, रहित-
मिति च वक्तव्यम् ।
३३. मित्रशब्दो नपुंसकम् । अमित्रशब्दस्तु स्त्रीपुंसयोर्यथाविवक्षम् इति
प्रकृते न किञ्चिदाक्षेप्यम् ।
३४. दरी तु कन्दरो वा स्त्रीति कोषप्रामाण्यात्कन्दरशब्द: पुल्लिङ्गः ।
तेन इमे कन्दरा ईमाः कन्दरा वेति वक्तव्यम् ।
३५. स्थूणोर्णे नपुंसके चेति सूत्रेण केवले स्थूणोर्णे स्त्रियां क्लीबे
च । गृहशशपूर्वे तु नियमेन नपुंसके । तथा च सूत्रम् -- गृहश-
शाभ्यां क्लीबे इति । तेन जर्जरितं गृहस्थूणमित्येव साधु ।
३६. गोचरसंचरेत्यादिना गोचरशब्दो घान्तो निपातितः । घाजन्त
इति चायं नैयत्येन पुमान् । गोचर इत्येव साधु । दृष्टेर्गोचरो
विषयः ।
३७. पिच्छबर्हे नपुंसके इत्यमराद्बर्हं नपुंसकम् ।
३८. सन्तान इति समुपसृष्टात्तनोतेर्घञि रूपम् । तेन पुंस्त्वं व्यवस्थि-
तम् । सन्तान इति कुलनामधेयम् अपत्येऽपि वर्तते ।
१. पृषतलोचना हरिणाक्षी ।
२. छदिः । ३. बर्हिणः, मयूरस्य । ४, पिच्छानि । ५. सज्जति ।