३५६ शब्दापशब्दविवेके
१०५. वयं च ज्ञानालोकप्रवर्तकारणामार्याणां वंश्या इति शक्यं साभि-
मानं शिर उन्नमयितुम् ।
१०६. लोकव्यवहृतिपरिचितिसम्पत्तये संस्कृतपाठशालासु प्रबन्धः
कश्चिद्विधेयः ।
१०७. इतिहासप्रभृतयो विषया: संस्कृतगिरा निबद्धव्याः ।
१०८. ख्रिष्टाब्दीतः सहस्रद्वयात्प्राग् वेदा: प्रणिन्यिर इति केचित्
प्रलपन्ति मातृमुखाः ।
१०९. शास्त्रार्थायाऽभीतवदाह्वयन्तमष्टावक्रं बालचापलमेतदिति
नाद्रियते बन्दी ।
११०. लोकरावणो रावणो विविधैराकारैः परुषाक्षरैश्चाभीषयत्सी-
ताम् ।
१११. परं भर्तरि दृढमनुरक्ता सा न मनागप्यबिभ्यत्, न वा धर्माद्
व्यचलत् ।
११२. यदि ते किञ्चित्परमार्थतो विज्ञातुं विचेष्टेरंस्तदा ध्रुवं सिद्धि
कामपि लभेरन् ।
१०५. ज्ञानालोक प्रवर्तकानामिति वक्तव्यम् । तकारव्यवधानेन अट्कु-
प्वाङ्नुम्व्यवायेपीति णत्वं न ।
१०६. प्रबन्धशब्दः क्रियासातत्ये वर्तते, यथा नानद्यतनवत् क्रियाप्रबन्ध-
सामीप्ययोरित्यत्र पारिणनीये तेन संविधानं किञ्चिद्विधेयमिति
वा संविधा काचिद्विधेयेति वा वक्तव्यम् ।
१०७. निबन्द्धव्या इत्येव साधु । तव्येऽनुनासिकलोपस्याप्रसङ्गात् ।
१०८. ख्रिष्टाब्दतो द्वयोर्वर्षसहस्रयोरिति वक्तव्यं प्रागिति चाप्रयोज्यम् ।
उपपादना च वाग्व्यवहारादर्शे कारकाधिकरणे द्रष्टव्या ।
१०९. स्पर्धायामाङ इत्यात्मनेपदे आह्वयमानमिति साधु स्यात् ।
११० अभाययत्सीतामिति वक्तव्यम् । षुगात्मनेपदं च हेतोरेव भये सति
भवतो न तु करणादपि । हेतुश्चेह प्रयोजको गृह्यते ।
१११. अबिभेत् इत्येव साधु । शपः श्लुः । तिपि गुणः ।
११२ विचेष्टेरन्नित्यत्र विशब्दो विरुद्धार्थमाह । नहि भवति विशेषेण
चेष्टते विचेष्टत इति, किन्तर्हि विरुद्धं चेष्टते नाना वा चेष्टते
इति । यथौदनस्य पूर्णाश्छात्रा विचेष्टन्त इत्यत्र ।