पृष्ठम्:शब्दापशब्दविवेकः.pdf/३७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकीर्णकम् ३६७


१८९. दीपार्चिः शीघ्रं संचरमाणा सूक्ष्मकालकणिकया घटपटादीन् प्रकाशयति । १६०. इयमुत्कटा मेऽभिलाषा कश्मीरान्गच्छेयं तत्र च निदाघं नयेयम् । १६१. त्रिंशद्वर्षो वहेत्कन्यां हृद्यां द्वादशवार्षिकीम् । (मनौ ९।९४) १९२. एकद्वे वासरे मयि वस्तुमर्हसि, ततो गमिष्यसि । १९३. अतिमात्र स्निह्यत्यम्बा शिशुकम् । १९४. देवदत्तायेक्षते देवं गर्गः । १९५ भयङ्करीयं मूर्तिदृष्टमात्रा लोमानि मे हर्षयति । १९६. कौसल्यया रामो जातः सुमित्रया च लक्ष्मणः, तथाविधं, च तयोः सौभ्रात्रमिति चित्रीयते लोकः । १६७. त्यजेन्मायाविनं मित्रं धनं प्राणहरं त्यजेत् । १८९. संचरन्तीत्येव साधु । सञ्चरतेस्तृतीयया योगो नास्तीति तङ् न । १९१. अभिलाषशब्दो घञन्तः, तेन पुंसि नियत: । अयमुत्कटो मेऽभि- लाष इति वक्तव्यम् । १९१. चित्तवति नित्यमिति ठञो लुकि द्वादशवर्षामिति वक्तुमुचितम् इति पाणिनीयाः । १६२. एकद्वान्वासरानिति वक्तव्यम् । एको वा द्वौ वा वासरावित्ये- कद्वा वासराः । संख्ययाऽव्ययासन्नाधिकसंख्याः संख्येय इति बहु- व्रीहिः । संख्येये डजबहुगणादिति डच् । १९३. स्निह्यतिरकर्मकः । तेन शिशुके स्निह्यतीत्येवं वक्तव्यम् । १६४. ईक्षतिरिह दैवपर्यालोचने वर्तत इति कर्मणो धात्वर्थेनोपसं- ग्रहादकर्मकः । तेन दैवमिति कर्म न पृथक्प्रयोगमर्हति । १६५. मेघतिभयेषु कृञ इति खचि मुमागमे टापि भयंकरेत्येव रूपम् । ङीपोऽप्रसक्तेः । १९६. कौसल्यायां रामो जातः, सुमित्रायां च लक्ष्मण इत्येवं वक्तव्यम् । जनिक्रियायां मातुरधिकरणतां विवक्षन्ति शिष्टा: । सोऽयं विषयो वाग्व्यवहारादर्शे कारकप्रकरणे सविस्तरं च व्याख्यातः । -