पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
शिवार्चनाचन्द्रिकायाम्

के संयोजय अविश्रान्तं परमामृतस्यन्दिबिन्दुरूपं ततआनीय भ्रमध्यगत शिवमण्डपविश्रान्तं संभाव्य शरदिन्दुसहस्त्रद्राव्य हृद्देशेऽञ्जलिं धारयन् वायुमपि पिङ्गळया विरेच्य वायुना सह परमशिवं ज्योतिः पुष्पाञ्जलिमध्य प्रापितं विभाव्य हां हं शिखायनम इति सदाशित्रस्य ब्रह्मरं नै योजयेत् । उक्तार्थविशदीकरणाय मूलमन्त्र तदीयहकार तत्कलाद्वादशस्थानानि प्रद श्र्यन्ते । यद्देहमध्यस्थानं मूलाधारं ततः प्रभृति ब्रह्मरन्ध्रपर्यन्तं ताळचतुष्टयः प्रमाणं देहान्तर्गतम्। ततऊढं तालप्रमाणं शिखस्थानम्। तत्र मूलाधारस्थि तचतुर्दळकमळकर्णिकायां प्रासादमन्तस्येत्थानम् । ततःप्रभृति ना- भिपर्यन्तं मृणालसूक्ष्मविद्युत्प्रभो हकारः । नाभेरू द्वे द्वादशांगुलपर्यन्तं वि द्युद्दक्षुति रकारयुक्तो हकारः। ततः पञ्चचतुरंगुलप्रमाणं हृत्पद्मम् । तत आरभ्य शिखाग्रपर्यन्तं द्वादशकलास्थानानि । तत्रचतुरंगुल व्याप्तिमान्मै कार स्तुिमात्रस्समूढांगारपुञ्जद्युतिः । सच निवृत्तिकलया पृथिव्यादिप्रकृत्य न्तैः चतुर्विंशाततत्त्रैश्च सहितेन ब्रह्मणाऽधिष्ठितः । तदूर्द्ध कण्ठस्थानस्थि- ताष्टांगुलप्रमाण पोडशदलपद्मव्याप्तिमा नृकारः द्विमात्र स्समसमयसमुदि तचन्द्रसूर्यद्युतिः। स प्रतिष्ठाकलया पुरुषादिकालान्तैष्पभिस्तत्त्रैश्च सहि तेन विष्णुनाऽधिष्ठितः । तदूर्द्ध तालुमूलस्थितचतुरंगुलप्रमाणचतुर्दलपद्म व्याप्तिमान्मकारः एकमात्रो विद्युद्वर्णः । स विद्यकलया मायातत्वेनच सहितेन रुद्रेणाधिष्ठितः । तदूर्द भ्रमध्यस्थितद्वयंगुलप्रमाणद्विदलपद्म व्याप्तिमा न्बिन्दुवृत्ताकारोऽर्द्धमात्रो विद्युद्वयोः शान्तिकलया शुद्धविचेश्वरत- त्वाभ्यांच सहितेन महेश्वरेणाधिष्ठितः । तदूद्रे ललाटमध्ये अर्धमात्रा ऊङ्प्रा अर्धचन्द्राकृतिः पादमाता चन्द्रवर्णा । तद्वै ललाटे निरोधी । सचोध्र्वाग्रात्रिकोणाकृति रष्टांशमात्रो धूम्रत्रर्णः । तदूद्रं शिरसि नादः । स दण्डाकृति रुभयतोबिच्दुद्ययुक्रः षोडशांशमात्रो माणिक्कवर्णः । ततो