पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२३
त्रयोदशः सर्गः ।

भयात्स्फुटं सत्यं अमूः पौरयोषितः न पश्यतीति हेतोरिति विश्वासादित्यर्थः । अत एव गम्योत्प्रेक्षा । मदनेन वीतभयमधिष्ठिता आक्रान्ताः अत्यारूढमदना इत्यर्थः । पुरोविलासिनीः स हरिः क्षणमीक्षते स्म । सविस्मयमिति भावः ॥ ३९॥

 विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये ।
 मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ॥४०॥

 विपुलेनेति ॥ युगक्षये कल्पान्ते । सागरे शेते इति सागरशयस्य । 'अधिक- रणे शेतेः' (३।२।१५) इत्यच्प्रत्ययः । 'शयवासवासिष्वकालात्' (६।३।१८) इति विकल्पादलुगभावः । यस्य हरेर्विपुलेन कुक्षिणा भुवनानि पपिरे पीतानि । पिबतेः कर्मणिं लिट् । स हरिरेकतमया पुरस्त्रिया पुनः कयाचित्पौराङ्गनया मदविभ्रमेण मदविकारेणासकलया असमग्रया एकया दृशा पपे पीतः । सतृष्णं दृष्ट इत्यर्थः । कुक्षिकोणनिविष्टनिखिलविष्टपस्य हरेर्महत आधेयस्यात्यल्पतरैककान्ताक- टाक्षकोणाधारत्वोक्त्या चमत्कारोधिकालंकारः । 'आधाराधेययोरानुरूप्याभावोsधिको मतः' इति लक्षणात् । अयं च तात्कालिकविकारात्मा विलासाख्यो भावो यत्कटाक्षवीक्षणम् । 'तात्कालिको विशेषः स्याद्विलासोऽङ्गक्रियादिषु' (२।३०) इति दशरूपकात् ॥ ४० ॥

 अधिकोन्नमद्धनपयोधरं मुहुः प्रचलत्कलापिकलशङ्खकस्वना ।
 अभिकृष्णमङ्गुलिमुखेन काचन द्रुतमेककर्णविवरं व्यघट्टयत् ॥४१॥

 अधिकेति ॥ काचन काचित् कान्ता अभिकृष्णं कृष्णाभिमुखम् । आभिमुखेऽव्ययीभावः । अधिकं भुजोन्नमनाभृशमुन्नमन् घनः कठिणः पयोधरः स्तनो यस्याः सा मुहुः प्रचलतो नृत्यतः कलापिनो बर्हिण इव कलो मधुरः शङ्खकस्वनो वलयध्वनिर्यस्याः सा सती । 'शङ्खकं वलये कम्बौ' इति विश्वः । अङ्गुलिमुखेनानाङ्गुल्यग्रेणैकस्य कर्णस्य विवरं रन्धं द्रुतं शीघ्रं व्यघट्टयत् । कण्डूविनोदार्थमिवाताडयत् । वस्तुतस्तु भावाविष्करणार्थमेवेति भावः । अयं च पूर्ववद्विलास एव । कलापिकलेत्युपमा॥४१॥

 परिपाटलाजदलचारुणासकृच्चलिताङ्गुलीकिसलयेन पाणिना ।
 सशिरःप्रकम्पमपरा रिपुं मधोरनुदीर्णवर्णनिभृतार्थमाह्वयत् ॥४२॥

 परीति ॥ अपरा स्त्री परिपाटलाजदलचारुणा रक्ताब्जपत्ररुचिरेण असकृ- न्मुहुश्चलितान्यङ्गुल्यः किसलयानीवाङ्गुलीकिसलयानि यस्य तेन पाणिना सशिरः- प्रकम्पं शिरःकम्पयुक्तं यथा तथा मधो रिपुं हरिमनुदीर्णवर्णमनुच्चारिताक्षरम् अत एव निभृतार्थं परेषामप्रकाशितार्थं च यत्तदनुदीर्णवर्णनिभृतार्थं यथा तथा आह्वयत् । परप्रकाशनभयादव्याहरन्ती चेष्टयैवाह्वानं कृतवतीत्यर्थः । अत्रापि पूर्ववद्विलासोपमे भावालंकारौ ॥ ४२ ॥

 नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना।
 स्फुरदङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्कुरमजृम्भतापरा ॥ ४३ ॥

 नलिनेति ॥ अपरा स्त्री नलिनान्तिके उपहितस्य पल्लवस्य श्रीरिव श्रीर्यस्य