पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
द्वितीयः सर्गः ।

 आवश्यकं चैतदित्याह-

  अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
  शब्दविद्येव नो भाति राजनीतिरपस्पशा ॥ ११२॥

 अनुदिति ॥ उत्सूत्र उच्छास्त्रो नीतिशास्त्रविरुद्धः पदन्यासः एकपदप्रक्षेपोऽपि । स्वल्पव्यवहारोऽपीति यावत् । स नास्ति यस्यां सा अनुत्सूत्रपदन्यासा । नीतिपूर्वकसर्वव्यवहारेत्यर्थः । अन्यत्रानुत्सूत्रपदन्यासा अनुत्सृष्टसूत्राक्षरः इष्ट्युपसंख्याननैरपेक्ष्येण सूत्राक्षरैरेव सर्वार्थप्रतिपादको न्यासो वृत्तिव्याख्यानग्रन्थविशेषो यस्यां सा तथोक्ता । तथा सती यथार्थं कल्पनया शोभना वृत्तिर्भृत्यामात्यादीनामाजीविका यस्यां सा सद्वृत्तिः, अन्यत्र सती वृत्तिः काशिकाख्यसूत्रव्याख्यानग्रन्थविशेषो यस्यां सा । 'वृत्तिर्ग्रन्थजीवनयोः' इति वैजयन्ती । सन्ति निबन्धनान्यनुजीव्यादीनां क्रियावसानेषु दत्तानि गोहिरण्यादिशाश्वतपारितोषिकदानानि यस्यां सा । एतच्च ‘दत्त्वा भूमिनिबन्धनं च' *इत्येतद्वचनव्याख्याने मिताक्षरायां द्रष्टव्यम् । अन्यत्र सन्निबन्धनं भाष्यग्रन्थो यस्यां सा। एवंभूतापि राजनीती राजवृत्तिः । अपगतः स्पशः चारो यस्याः सा अपस्पशा चेत् । 'यथार्थवर्णो मन्त्रज्ञः स्पशो हरक उच्यते' इति हलायुधः । अन्यत्र अविद्यमानः पस्पशः शास्त्रारम्भसमर्थक उपोद्घातसंदर्भग्रन्थो यस्याः सा अपस्पशा शब्दविद्या व्याकरणविद्येव नो भाति न शोभते । तस्माच्चारप्रेषणमावश्यकम् , तद्रहितस्य राज्ञोऽन्धप्रायत्वादिति भावः । अत्रापस्पशेत्यत्र जतुकाष्ठवच्छब्दयोरेव श्लिष्टत्वाच्छब्दश्लेषः । सद्वृत्तिः सन्निबन्धनेत्यत्रैकवृन्तावलम्बिफलद्वयवदर्थश्लेषः । अनुत्सूत्रपदन्यासेत्यत्र तूभयसंभवादुभयश्लेषः । शब्दविद्येवेति पूर्णोपमा व्यक्तैव । तयोः सापेक्षत्वात्संकरः ॥ ११२ ॥

 न केवलं चारमुखेन वृत्तान्तज्ञानम् , अपि तूपजापश्च कर्तव्य इत्याह-

  अज्ञातदोषैर्दोषज्ञैरुद्दूष्योभयवेतनैः ।
  भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः॥११३ ॥

 अज्ञातेति ॥ किंचाज्ञातदोषैः परैरज्ञातस्वकर्मभिर्दोषज्ञैः स्वयं परमर्मज्ञैरभिव्यक्तानि भेद्यस्याग्रे प्रकटितानि शासनानि तदमात्याद्यविश्वासकराणि कूटलिखितानि येषां तैः उभयवेतनैरुभयत्र भेद्ये स्वामिनि च वेतनं भृतिर्येषां तैरुभयजीविकाग्राहिभिः, भेद्यनगरवास्तव्यैश्चरैरित्यर्थः । 'भृतयो भर्म वेतनम्' इत्यमरः । शत्रोः संबन्धिनः समवायं समवयन्तीति सामवायिकाः सङ्घमुख्याः सचिवादयः । 'समवायान्समवैति' (४।४।४३) इति ठक् । उद्दूष्य द्विषामेते दत्तहस्ता अस्माभिरेषां लिखितान्येव गृहीतानीत्युच्चैर्दूषयित्वा भेद्या विघट्टनीयाः ॥ ११३ ॥

  उपेयिवांसि कर्तारः पुरीमाजातशात्रवीम् ।
  राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव ॥ ११४ ॥

 उपेयिवांसीति ॥ किंच उपायज्ञैः कार्यसाधनकुशलैस्तव चरन्तीति चरैर्गूढ-

  • [ श्लोकोऽयं 'दत्त्वा भूमिं निबन्धं वा' इति याज्ञवल्क्यस्मृतावाचाराध्याये

(श्लो० ३१८) पठ्यते ।]