पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२०५

पुटमेतत् सुपुष्टितम्
१४०
श्रीपाञ्चरात्ररक्षा

"अनन्यदेवताभक्ता ये मद्भक्तजनप्रिया ।
मामेव शरणं प्राप्तास्ते मद्भक्ता प्रकीर्तिता ॥" इति ।

 निरतिशयभोग्यभगवत्स्वरूपादिनिश्चयेन विषयान्तरवैमुख्यात् अनन्यप्रयोजनत्वमपि तत्रैव सिद्ध्यति । यस्या दशाया भगवानत्यन्तासन्न सुहृदादिवत् स्वच्छन्दाराधनयोग्यो भवति । यथोक्त भगवता शौनकेन---

"पराङ्मुखाना गोविन्दे विषयासक्तचेतसाम् ।
तेषा तत्परम ब्रह्म दूराद्दूर​तरे स्थितम् ॥
तन्मयत्वेन गोविन्दे ये नरा न्यस्तचेतस ।
विषयत्यागिनस्तेषा विज्ञेयं च तदन्तिके ॥" इति ।

परमैकान्तिना देव
तान्तरवर्जनम् ।

 एव परिमितविषयत्यागिना परिमितदेवतान्तरत्यागो नियतो भवति ।

"काक्षन्त कर्मणा सिद्धि यजन्त इह देवता ।
क्षिप्र हि मानुषे लोके सिद्धिर्भवति कर्मजा ।"
"ब्रह्माण शितिकण्ठ च याश्चान्या देवता स्मृता ।
प्रतिबुद्धा न सेवन्त यस्मात् परिमितं फलम् ॥" इति ।

परिमितफलसङ्ग-तदभावाभ्या[१] देवतासबन्धासबन्धप्रतिपादनात् । अतो यथा,

"परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि ।
सर्वेषणाविनिर्मुक्त स भैक्ष भोक्तुमर्हति ॥"

  1. फलसङ्गसदसद्भावाभ्या---घ