पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२३१

पुटमेतत् सुपुष्टितम्
१६६
श्रीपाञ्चरात्ररक्षा

यति । अतो निर्यत्नलब्धेन भगवदनुभवानन्दसन्दोहेन कृतार्थोऽस्मीति मन्यमान

भगवत्कैङ्कर्यरूप
निद्रानुभवप्रकार।

करण-कलेबरानुगुण्यावधि सुखमासीनो विविधव्यापारायस्तस्य[१] करिष्यमाणयोगोपकरणभूतस्य करणवर्गस्य विश्रान्तये स्वयमुपनमन्ती निद्रा न निवारयेत् । ‘युक्तस्वप्नावबोधस्य' इति स्मरणात् । निद्रैव तदा कैङ्कर्यम् । सुषुप्तौ च “ तदभावो नाडीषु तच्छ्रृतेरात्मनि च” इति शारीरकसूत्रोक्तेन प्रासादखट्वापर्यकन्यायेन[२] नाडीपुरीतद्ब्रह्मसु[३] स्वात्मन शयनमनुसन्धाय, लक्ष्मीपरिष्वङ्गव्यञ्जकेन माधवशब्देन भगवन्तं संकीर्तयन् , “ यथा प्रियया संपरिष्वक्त ” इत्यारभ्य, “प्राज्ञेनात्मना संपरिष्वक्तो न बाह्य किंचन वेद नान्तरम्" इत्याम्नातप्रक्रियया[४] परमात्मपरिष्व[५]ङ्गविशेषं च परामृश्य, 'यत्करोषि' इत्यादिप्रस्थानेन निद्रामपि समाराधनत्वेन मन्यमान , संशुद्धशुष्कपाद , शास्त्रोक्तप्रकारेण समुचिते स्थाने शास्त्रीये शयनीये चोदितदिक्छिरा, शुद्धत्वानग्नत्वादिनियमयुक्त[६] श्रीशाण्डिल्यस्मृत्याद्युक्तप्रकारेण स्वाराध्यस्य भगवतश्चरणारविन्दयोर्विन्यस्तशिरस्क , ‘शयनासनयानादौ' इत्यादिविधानात् तमेव माधव हृदये[७] ध्यायन् तमेव कीर्तयन् सुखं शयीत । यदा यदा च[८] निद्राविच्छेदस्तदा तदा तमेव ध्यायेत् । संकीर्तयेच्च तानि नामानि पुनरानिद्रागमात् । सोऽयं प्रदोषप्रभृति-ब्राह्ममुहूर्तावधि[९] सारस्वत-

  1. व्यापारायत्तस्य-क, ख, ट, च, छ, झ, व्यापारायासितस्य -ग
  2. प्रासादखट्वाङ्गपर्यङ्कन्यायेन-ग, प्रसादखट्वाङ्गपर्यङ्कन्यायेन-च
  3. ब्रह्मणि-ख, ग, घ, ड, छ ।
  4. इत्यादिप्रक्रियया-क, ख, ग, च, झ
  5. परमात्मनि परिष्वङ्ग-इति घ कोशादन्यत्र पाठ
  6. शुद्धत्वादिनियमयुक्त -घ-
  7. हृदयेऽपि-घ
  8. च शब्द घ कोशादन्यत्र नास्ति
  9. मुहूर्तपर्यन्त-ड, छ