पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/९१

पुटमेतत् सुपुष्टितम्
२६
श्रीपाञ्चरात्ररक्षा

"चत्वारः एकतो वेदाः भारतं चैकमेकतः ।
समागतैः सुरर्षिभिस्तुलामारोपितः पुरा ॥
महत्त्वे च गुरुत्वे च ध्रियमाणे [१] ततोऽधिकम् ।
महत्त्वाच्च गुरुत्वाञ्च महाभारतमीरितम् [२] " ॥

इत्यादिवचनानि वेदेभ्योऽपि महाभारतस्याधिक्यं ब्रुवाणानि वेदार्थोपबृंहणरूपातिशयशालिमहाभारतप्रशंसार्थानि । न पुनर्वेदानामपकर्षगन्धमभिदधते । किं च बह्वृचाम्नाय "ऋग्गाथा कुम्ब्या तन्मित यजुर्निगदो वृथा वाक्तदमित सामाधो यः कश्च गेष्ण" इति यजुरादिनिन्दा ऋग्वेदस्तुत्यर्थैव । एवमिहापि श्रीवैखानस-पञ्चरात्रयोः परस्परापकर्षवचनानामाप्तत्वेऽपि स्वाभिमतस्तुत्यर्थतयैव निर्वोढव्यम् । अन्यथा सर्वोपप्लवप्रसङ्गात् । अविस्रम्भणीयवचनानां यथाश्रुतस्वीकारेऽतिप्रसङ्गाच्च ।

 एवमिव [३] हि शैवागमे कारणतन्त्रे जल्प्यत [४] ------

शेवागमकारणतन्त्र
वचनानमपि स्व-
शास्त्रप्रशंसापरत्वम् ।

"शैवः सर्वाधिकारी स्यात् स्वकीये च परत्र च ।
शैवाः सर्वं प्रकुर्वन्ति ये गृहस्थाः द्विजोत्तमाः ॥
यामले मातृतन्त्रे च कापाले पञ्चरात्रके ।
बोद्धे वाप्यार्हते चैव लागुडे वैदिकेऽपि च ॥
अन्येष्वपि च मार्गेषु तत्तच्छास्त्रानुसारतः ।
शैवाः सर्वं प्रकुर्वन्ति तलिङ्गस्थापनादिकम् ॥

  1. यतो- घ, ड, छ, ज
  2. उच्यते- घ
  3. एवमेव- क, ख, ग, च
  4. कथ्यते- क, ख, ग, च