म० टी०-इदानी किंलक्षण आत्माऽऽत्मनो बन्धुः किंलक्षणो वाऽऽत्मनो रिपुरित्युच्यते-
बन्धुरात्माऽऽत्मनस्तस्य येनाऽऽत्मैवाऽऽत्मना जितः॥ |
आत्मा कार्य[१]करणसंघातो येन जितः स्ववशीकृत आत्मनैव विवेकयुक्तेन मनसैव न तु[२] शस्त्रादिना, तस्याऽऽत्मा स्वरूपमात्मनो बन्धुरुच्छृङ्खलस्वप्रवृत्त्यभावेन स्वहितकरणात् , अनात्मनस्तु अजितात्मन इत्येतत् । शत्रुत्वे शत्रुभावे वर्तेताऽऽत्मैव शत्रुवत्, बाह्यशत्रुरिवोच्छृङ्खलप्रवृत्त्या स्वस्य स्वेनानिष्टाचरणात् ॥ ६ ॥
श्री० टी०-कथंभूतस्याऽऽत्मैव बन्धुः कथंभूतस्य चाऽऽत्मैव रिपुरित्यपेक्षायामाह-बन्धुरिति । येनाऽऽत्मनैवाऽऽत्मा कार्यकारणसंघातरूपो जितो वशीकृतस्तस्य तथाभूतस्याऽऽत्मन आत्मैव बन्धुः । अनात्मनोऽजितात्मनस्तु आत्मैवाऽऽत्मनः शत्रुत्वे शत्रुवदप[३]कारकारित्वे व[४]र्तत ॥ ६ ॥
म०टी०-जितात्मनः स्वबन्धुत्वं विवृणोति-
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ॥ |
शीतोष्णसुखदुःखेषु चित्तविक्षेपकरेषु सत्स्वपि तथा मानापमानयोः पूजापरिमवयोश्चित्तविक्षेपहेत्वोः सतोरपि तेषु समत्वेनेति वा । जितात्मनः प्रागुक्तस्य जितेन्द्रियस्य प्रशान्तस्य सर्वत्र समबुद्ध्या रागद्वेषशून्यस्य परमात्मा स्वप्रकाशज्ञानस्वभाव आत्मा समाहितः समाधिविषयो योगारूढो भवति । प[५] रमिति वा छेदः । जितात्मनः प्रशान्तस्यैव परं केवलमात्मा समाहितो भवति नान्यस्य । तस्माज्जितात्मा प्रशान्तश्च भवेदित्यर्थः ॥ ७ ॥
श्री०टी०-नितात्मनः स्वस्मिन्बधुत्वं स्फुटयति-जितात्मन इति । जित आत्मा येन तस्य प्रशान्तस्य रागादिरहितस्यैव परं केवलमात्मा शीतोष्णादिषु सत्स्वापि समाहितः स्वात्मनिष्ठो भवति नान्यस्य । यद्वा तस्य हृदि परमात्मा समा हितः स्थितो भवति ॥ ७॥
म०टी०-किं च-----
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ॥ |