सर्गादावेव नोत्पन्नं दृश्यं नास्त्येव [१]तत्सदा । |
दृश्यावभासविरोधियोगाभ्यासो मनोनिरोधाभ्यासः । तदुक्तम्-----
" अत्यन्ताभावसंपत्तौ ज्ञातुर्जेयस्य वस्तुनः । |
ज्ञातृज्ञेययोर्मिथ्यात्वधीरभावसंपत्तिः। स्वरूपेणाप्यप्रतीतिरत्यन्ताभावसंपत्तिस्तदर्थम् । युक्त्या योगेन ।
" दृश्यासंभवबोधेन रागद्वेषादितानवे । |
रागद्वेषादिक्षीणतारूपवासनाक्षयाभ्यास उक्तः । तस्मादुपपन्नमेतत्तत्त्वज्ञानाभ्यासेन मनोनाशाम्यासेन वासनाक्षयाभ्यासेन च रागद्वेषशून्यतया यः स्वपरसुखदुःखादिषु समदृष्टिः स परमो योगी मतो यस्तु विषमदृष्टिः स तत्त्वज्ञानवानप्यपरमो योगीति ॥ ३२ ॥
श्री० टी०-एवं च मां भजतां योगिनां मध्ये सर्वभूतानुकम्पी श्रेष्ठ इत्याह- आत्मौपम्येनेति । आत्मौपम्येन स्वसादृश्येन यथा मम सुखं प्रियं दुःखं चाप्रियं तथाऽन्येषामपीति सर्वत्र समं पश्यन्सुखमेव सर्वेषां यो वाञ्छति न तु कस्यापि दुःखं, स योगी श्रेष्ठो ममाभिमत इत्यर्थः ॥ ३२ ॥
म०टी०-उक्तमर्थमाक्षिपन्-
अर्जुन उवाच-
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ॥ |
योऽयं सर्वत्रसमदृष्टिलक्षणः परमो योगः साम्येन समत्वेन चित्तगतानां रागद्वेषदीनां विषमदृष्टिहेतूनां निराकरणेन त्वया सर्वज्ञेनेश्वरेणोक्तः, हे मधुसूदन सर्ववैदिकसं- प्रदायप्रवर्तक, एतस्य त्वदुक्तस्य सर्वमनोवृत्तिनिरोधलक्षणस्य योगस्य स्थिति विद्यमानतां स्थिरां दीर्घकालानुवर्तिनी न पश्यामि न संभावयामि अहमस्मद्विधोऽन्यो वा योगाभ्यासनिपुणः । कस्मान्न संभावयसि तत्राऽऽह-चञ्चलत्वात् , मनस इति शेषः ॥ ३३ ॥
श्री० टी०-उक्तलक्षणस्य योगस्यासंभवं मन्वानः-अर्जुन उवाच योऽय-
- ↑ क. छ. सर्वदा।