अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ॥ |
म० टी०-अस्मदीयैः पतिभिर्धर्ममतिक्रम्य कुलक्षयः कृतश्चैदस्माभिरपि व्यभि- चारे कृते को दोषः स्यादित्येवं कुतर्कहताः कुलस्त्रियः प्रदुष्येयुरित्यर्थः । अथवा कुल- क्षयकारिपतितपतिसंबन्धादेव स्त्रीणां दुष्टत्वम् । “आ शुद्धेः संप्रतीक्ष्यो हि महापा- तकदूषितः " इत्यादिस्मृतेः ॥ ४१ ॥
श्री० टी०-–ततश्च-अधर्माभिभवादिति ॥ ४१ ॥
संकरो नरकायैव कुलघ्नानां कुलस्य च ॥ |
म० टी०-कुलस्य संकरश्च कुलघ्नानां नरकायैव भवतीत्यन्वयः । न केवलं कुलघ्नामेव नरकपातः किं तु तत्पितॄणामपत्याह-पतन्तीति । हिशब्दोऽभ्यर्थे हेतौ वा । पुत्रादीनां कर्तृणामभावाल्लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते तथा । कुलघ्नानां पितरः पतन्ति नरकायैवेत्यनुषङ्गः ॥ ४२ ॥
श्री० टी०–एवं च सति-संकर इति । एषां कुलघ्नानां पितरः पतन्ति । हि यस्माल्लुप्ता पिण्डोदकक्रिया येषां ते ॥ ४२ ॥
दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ॥ |
म० टी०–जातिधर्माः क्षत्रियत्वादिनिबन्धना: कुलधर्मा असाधारणाश्च । एतैर्दोषैरुत्साद्यन्त उत्सन्नाः क्रियन्ते विनाश्यन्त इत्यर्थः ॥ ४३ ॥
श्री० टी०–उक्तं दोषमुपसंहरति द्वाभ्याम्-दोषैरिति । उत्साद्यन्ते लुप्यन्ते जातिधर्मा वर्णधर्माः कुलधर्माश्च । चकारादाश्रमधर्मादयोऽपि गृह्यन्ते ॥ ४३ ॥
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ॥ |
म० टी०-ततश्च प्रेतत्वपरावृत्तिकारणाभावान्नरक एव निरन्तरं वासो भवति ध्रुवमित्यनुशुश्रुमाऽऽचार्याणां मुखाद्वयं श्रुतवन्तो न स्वाभ्यूहेन कल्पयाम इति पूर्वोक्तस्यैव दृढीकरणम् ॥ ४४ ॥