श्री० टी०-वेदानामिति । वासव इन्द्रः । भूतानां संबन्धिनी चेतना ज्ञानशक्तिरहमस्मि ॥ २२ ॥
रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् ॥ |
म०टी०-रुद्राणामेकादशानां मध्ये शंकरः । वित्तेशो धनाध्यक्षः कुबेरो यक्षरक्षसा यक्षानां राक्षसानां च। वसूनामष्टानां पावकोऽग्निः । मेरुः सुमेरुः शिखरिणां शिखरवतामत्युच्छ्रितानां पर्वतानाम् ॥ २३ ॥
श्री. टी-रुद्राणामिति । यक्षरक्षसामिति राक्षसानामपि क्रूरत्वादिसाम्याद्यक्षैः सहैकीकृत्य निर्देशः । तेषां मध्ये वित्तेशः कुबेरोऽस्मि । पावकोऽग्निः । शिखरिणां शिखरवतामुच्छ्रितानां मध्ये मेरुः ॥ २३ ॥
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ॥ |
म० टी०-इन्द्रस्य सर्वराजश्रेष्ठत्वात्तत्पुरोधसं बृहस्पतिं सर्वेषां पुरोधसां राजपुरोहितानां मध्ये मुख्यं श्रेष्ठं मामेव हे पार्थ विद्धि जानीहि । सेनानीनां सेनापतीनां मध्ये देवसेनापतिः स्कन्दो गृहोऽहमस्मि । सरसां देवखातजलाशयानां मध्ये सागरः सगरपुत्रैः खातो जलाशयोऽहमस्मि ॥ २४ ॥
श्री० टी०-पुरोधसामिति । पुरोधसां मध्ये देवपुरोहितत्वान्मुख्यं बृहस्पति मां विद्धि । सेनानीनां सेनापतीनां मध्ये देवसेनापतिः स्कन्दोऽहमस्मि । सरसां स्थिरजलाशयानां मध्ये समुद्रोऽस्मि ॥ २४ ॥
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ॥ |
म०. टी०--महर्षीणां सप्तब्रह्मणां मध्ये भृगुरतितेजस्वित्वादहम् । गिरां वाचां पदलक्षणानां मध्य एकमक्षरं पदमोंकारोऽहमस्मि । यज्ञानां मध्ये जपयज्ञो हिंसादिदोषशून्यत्वेनात्यन्तशोधकोऽहमस्मि । स्थावराणां स्थितिमतां मध्ये हिमालयोऽहम् । शिखरवतां मध्ये हि मेरूरहमित्युक्तमतः स्थावरत्वेन शिखरवत्त्वेन चार्थभेदाददोषः ॥ २५ ॥
श्री०टी०-~-महर्षीणामिति । गिरां वाचां पदात्मिकानां मध्य एकमक्षरमोंकाराख्यं पदमस्मि । यज्ञानां श्रौतस्मातानां मध्ये जपरूपो यज्ञोऽहम् ॥ २५ ॥
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ॥ |