बाहव उदराणि वक्त्राणि नेत्राणि चानेकानि यस्य तमनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वा त्वां सर्वतः सर्वत्रानन्तानि रूपाणि यस्येति तम् । तव तु पुनर्नान्तमवसानं न मध्यं नाप्यादिं पश्यामि सर्वगतत्वात् , हे विश्वेश्वर हे विश्वरूप संबोधनद्वयमतिसंभ्रमात् ॥ १६ ॥
श्री०टी०-किं च-अनेकेति । अनेकानि बाह्वादीनि यस्य तादृशं त्वां पश्यामि । अनन्तानि रूपाणि यस्य तं त्वां सर्वतः पश्यामि । तव तु अन्तं मध्यमादि च न पश्यामि सर्वगतत्वात् ॥ १६ ॥
म०टी०-तमेव विश्वरूपं भगवन्तं प्रकारान्तरेण विशिनष्टि-
किरीटिनं गदिनं चक्रिणं च |
किरीटगदाचक्रधारिणं च सर्वतोदीप्तिमन्तं तेजोराशिं च । अत एव दुर्निरीक्षं दिव्येन चक्षुषा विना निरीक्षितुमशक्यम् । सयकारपाठे दुःशब्दोऽपह्रववचनः । अनिरीक्ष्यमिति यावत् । दीप्तयोरनलार्कयोद्युतिरिव द्युतिर्यस्य तमप्रमेयमित्थमयमिति परिच्छेत्तुमशक्यं त्वां समन्तात्सर्वतः पश्यामि दिव्येन चक्षुषा । अतोऽधिकारिभेदादुर्निरीक्षं पश्यामीति न विरोधः ॥ १७ ॥
श्री० टी०-किं च-किरीटिनमिति । किरीटिनं मुकुटवन्तं मदिनं गदावन्तं चक्रिणं चक्रवन्तं च । सर्वतोदीप्तिमन्तं तेजःपुञ्जरूपं च । तथा दुर्निरीक्ष्यं द्रष्टुमशक्यम् । तत्र हेतुः-दीप्तयोरनलार्कयोर्द्युतिरिव द्युतिस्तेजो यस्य तम् । अत एवाप्रमेयमेवंभूत इति निश्चेतुमशक्यं त्वां समन्ततः पश्यामि ॥ १७ ॥
म० टी०--एवं तवातयनिरतिशयैश्वर्यदर्शनादनुमिनोमि--
त्वमक्षरं परमं वेदितव्यं |
+ श्रीधरटीकारले दुनिरीक्ष्यमिति पाठः ।
- ↑ क, ग. स. अ. रीक्ष्यं स ।