म० टी०-ननु युद्धस्य कर्तव्यत्वेऽपि न भीष्मद्रोणादिभिर्गुरुभिः सह तत्कर्तुमुचितमतिगहितत्वादित्याशङ्कयाऽऽहं---
यदृच्छया चोपपन्नं स्वर्गद्दारमपावृतम् ॥ |
यदृच्छया स्वप्रयत्नव्यतिरेकेण, चोऽवधारणे, अप्रार्थनयैवोपस्थितमीदृशं भीष्मद्रोणादिवीरपुरुषप्रतियोगिकं कीर्तिराज्यलाभदृष्टफलसाधनं युद्धं ये क्षत्रियाः प्रतियोगित्वेन लभन्ते ते सुखिनः सुखभाज एव । जये सत्यनायासेनैव यशसो राज्यस्य च लाभात् । पराजये चातिशीघ्रमेव स्वर्गस्य लाभादित्याह–स्वर्गद्वारमपावृतमिति । अप्रतिवद्धं वर्गसाधनं युद्धमव्यवधानेनैव स्वर्गजनकं ज्योतिष्टोमादिकं तु चिरतरेण देहपातस्य प्रतिबन्धाभावस्य चापेक्षणादित्यर्थः । स्वर्गद्वारमित्यनेन श्येनादिवत्प्रत्यवायशङ्का परिह्रता । श्येनादयो हि विहिता अपि फलदोषेण दुष्टाः, तत्फलस्य शत्रुवधस्य न हिंस्यात्सर्वा भूतानि ” " ब्राह्मणं न हन्यात् " इत्यादिशास्त्रनिषिद्धस्य प्रत्यवायजनकत्वात्फले विध्यभावाच्च । न “विधिस्पृष्टे निषेधानवकाशः" इति न्यायावतारः । युद्धस्य हि फलं स्वर्गः स च न निषिद्धः । तथा च मनुः--
"आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः । |
युद्धं तु अग्नीषोमीयाद्यालम्भवाद्विहितत्वान्न निषेधेन स्प्रष्टुं शक्यते षोडशिग्रहणादिवत् । ग्रहणाग्रहणयोस्तुल्यबलतया विकल्पवत्सामान्यशास्त्रस्य विशेषशास्त्रेण संकोचसंभवात् । तथा च “विधिस्पृष्टे निषेधानवकाशः" इति न्यायाद्युद्धं न प्रत्यवायजनकं नापि भीष्मद्रोणादिगुरुब्राह्मणादिवधनिमित्तो दोषः, तेषामाततायित्वात् । तदुक्तं मनुना---
"गुरु वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । |
ननु "स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः । |
इति याज्ञवल्क्यवचनादाततायिव्राह्मणवधेऽपि प्रत्यवायोऽस्त्येव । " ब्राह्मणं न हन्यात् " इति हि दृष्टप्रयोजनानपेक्षत्वाद्धर्मशास्त्रं, " जिघांसन्तं जिघांसीयान्न तेन
- ↑ ख. घ. झ. “त् । जिघांसयिादिति जिघांसी सन्नीयादित्यर्थः । ना" ।