पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

164. श्रीमद्भगवद्गीता गौतार्थसंग्रहोपेता करणा:; मात्सर्यावहित्यालज्जाचिह्नीकृतवाङ्मुखदृष्टयः; सम- ग्रस्य जनस्य 'असत्प्रथापित.' इति हास्यरसविषयभावमात्मवि बारोपयन्ति । यत्पूर्वेव व्याख्या सर्वस्य करोति शिवम् इति ॥ ३३-३५ ॥ ॥ शिवम् ॥ अन संग्रहश्लोकः । अद्वैते ब्रह्मणि परा सर्वानुग्रहशालिनी । शक्तिर्विजृम्भते तेच यतनीयं तदाप्तये ॥ ॥ इति श्रीमहामाहेश्वराचार्यवर्य राजानका भिवव गुप्तपादविर- चिते श्रीमद्भगवद्गीतार्थसंग्रहे चवमोऽध्यायः ॥ ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ श्लो. ३ (मू) निवर्तन्ते । नितरां वर्तन्त इत्यर्थः । तदेवाह व्याख्याने पुनःपुनरित्यादिना ॥ श्लो. ४ (व्या) गत्वेति । स्थितस्य कृते इति शेषः । भूतरूपेत्यादि । भूतस्वरूपाणां पृथिव्यादीनां बोध्यात्मकान बोध्यता विशिष्टानां यत् 'द्विगुणसविवेकि विषयः सामान्यमचे- तनं प्रसवधर्मि' (सांख्यकारिका ११) इति प्रसिद्धं बोध्यता- समनियतं तदीयं भूतग्रामीयं जडत्वस्वरूपं तदेव पुरस्कृत्येत्यर्थः । इत्येतदाहेति । न चाहं तेष्वेवस्थित इति मूलस्य न चाहं तेष्ववस्थितत्वेन प्राकृतैः दृष्ट इत्यभिप्रायः इति भावः ॥ 1. Somits-विषय-