पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशोऽध्यायः 221 प्रकाशमिति । यद्यपि प्रकाशादिकाः सर्वेषु धर्मेषु वर्तन्ते; तथापि योगिनस्तेषु प्रकाशादिषु न रज्यन्ते; नापि द्वेषवन्तो भवन्ति । अपि तु 'केवलपिण्डधर्मतया एते स्थिताः, न मां क्षोभ- यितुमलम्' इति मन्वाना गुणातीता भवन्ति ॥ २२ ॥ अत एवाह- उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येव यो (S)ज्ञस्तिष्ठति नेङ्गते ॥ २३ ॥ समदुःख सुखस्वप्नः समलोष्टाश्मकांचनः । तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥ मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भफलत्यागी गुणातीतः स उच्यते ॥ २५ ।। PREP उदासीनवदित्यादि उच्यते इत्यन्तम् | यः अज्ञो निवि- वेकस्तिष्ठति स एव ज्ञः, सम्यग्ज्ञानात् । तथा हि वेङ्गते न स्व- रूपात् च्यवते । अढ चोपाय: 'शरीरेन्द्रियादिस्वभाव2 एषः, यत् प्रवर्तनम्, 3 न तु फलं किंचिदहमभिसन्दधे' स्थिरा बुद्धिः ॥ २३-२५ ।। मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ।। २६ ।। 1. S, B, N सर्वधर्मेषु । 2. S, B, N चोपायः सर्वेबामारंभाणां शरीरारंभ केन्द्रियादि- 3. N प्रवर्तते 4. N स्थिरबुद्धि: