पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

278 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता 'आचार्यादिहननक्रियानिषेधे मम धर्मो भविष्यति' इति मनसा विहाय; मामेवैकं सर्वकर्तारं स्वतन्त्रं ? शरणं सर्वस्वभावाधि- ष्ठायकतया व्रज । अत एवाहं सर्वज्ञः सर्वेभ्यः पापेभ्यस्त्वां मोक्ष- यिष्यामि इति । मा शुचः, किंकर्तव्यतामोहं मा गा: 3 ।। ६६ ।। इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ ६७ ।। इदमिति । अस्य ज्ञानस्य गोप्यमानत्वं सिद्धिदम्, सर्व- जनाविषयत्वात् । तपसा तावत् पापग्रन्थौ विशीर्णे कुशलपरि- पाकोन्मुखता भवति, इति पूर्वं तपः; तपसः श्रद्धा, सैव भक्तिः । श्रद्धापि उपजाता कदाचित् न प्ररोहति, सौदामिनीव क्षण- दृष्टनष्टत्वात् । ततः तत्प्ररोहे श्रोतुमिच्छा भवति । इयदपि च कस्यचिदनीश्वरेऽवस्तुनि शुष्कसांख्यादिज्ञाने भवति । सेश्व- रेऽपि वा कस्यचित् फलाथितया फलमेव प्रधानीकृत्य भगवन्तं च स्वात्मानं तदुपकरणपात्रीकरणेन न्यक्कृत्य भवेत् । यदुक्तम्- 'पुरुषश्च कर्मार्थत्वात्' (7s, III, i, 6 ) 'कर्माण्यपि फलार्थत्वात्' (JS, III, i, 4 ) इति । एवमुभयथापि भगवति असूयैव अनादर इत्यर्थः ।। ६७ ।। 1. 2. 3. 4. 5. N क्षणदुष्टत्वात् B, N ममाधर्मो S omits एकं-- स्वतन्त्रम् S, B मा गमः S adds जायते after श्रद्धा