पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ओम् ॥ श्रीशङ्करनारायणीपा श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी | Finl स्तुत्वा कृष्णं वासुदेव स्मृत्वा सर्वान गुरूनपि । नत्वा चाभिनवं गुप्तं वक्ष्येऽत्यल्पं प्रयत्नतः ॥ भक्त्यैवाधि तदीयं चागाधं गीतार्थसंग्रहम् । श्रीमच्छङ्करनारायणोऽहं श्रीशिवतुष्टये || M आमुखपद्ये द्वितीये तस्येति । मोक्षप्रथनस्येत्यर्थः । अस्य च परिपोषयितुमिति तुमुन्नन्तेनान्वयः । इयं च न कर्मणि षष्ठी; 'व लोकाव्ययनिष्ठाखलर्थ तृनाम्' (PA, II, iii, 69 ) इति विषेधात् । अपि तु शेषषष्ठयेव || (अवतरणिकायाम्) औन्मुख्येति औन्मुख्यजननीत्यर्थः । तत्कथेत्यादि । तेषां देवासुराणां कथैवोपक्रमणं यस्य तत् इति विग्रहः । अपहर्तव्यानीति । आहर्तव्यानीति विवक्षितमिव । अबु- ष्ठेयानीति तदर्थः । अथ वा अनपहर्तव्यानीति विवक्षितम् । न परिहर्तव्यानीति तदर्थः । वक्ष्यति च 'स्वधर्मस्य अनपहार्यत्वात्' इति (II, 32 ) ॥ श्लोक: १ (व्याख्या) मामक इति । ममकः स एव मामक इति विवक्षितमिव ||