पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१० सर्ग:]
69
सत्यं, सीते ! करोग्यच वार्तानां खहु रक्षणम्



बसन्तः [१]कालकालेषु बने मूलफलाशनाः |
न लभन्ते सुखं [२] भीताः राक्षसैः [३] क्रूरकर्मभिः ॥ ५ ॥

 कालकालेषु - सर्वकालेष्वपीत्यर्थः ॥ ५ ॥}}

[४]काले काले च निरताः नियमैः विविधैर्वने ।
[५]भक्ष्यन्ते राक्षसैः भीमै : नरमांसोपजीविभिः ॥ ६॥

[६]ते भक्ष्यमाणा मुनयः दण्डकारण्यवासिनः ।
[७]अस्मा [८]नभ्यवपद्येति मामूचुः द्विजसत्तमाः ॥ ७ ॥

 अस्मानभ्यवपद्येति पदद्वयमावत्यं, अस्मान् अभ्यवपद्य--अभि- गम्य । अभ्यवपद्येति-पद्यतेः गतौ आर्ष परस्मैपदम् । अभ्य- वपत्तिः - अनुग्रहः । अस्मान् दण्डकारण्यवासिनः अनुगृहाण इत्येवं मामूचुः ॥ ७ ॥

मया तु वचनं श्रुत्वा तेषामेचं मुखाच्चयुतम् ।
कृत्वा [९] [१०]वचनशुश्रूषां वाक्यमेतदुदाहृतम् ||८||

 तेषां मुखादेवं च्युतमिति । रक्षेति च्युतमित्यर्थः । वचन- शुश्रूषां-वचनानुष्ठानलक्षणशुश्रूषामित्यर्थः । कृत्वा-मनास कृत्वा । एवं प्राचीनः पङ्कः पाठः । योजनाशक्तया चरणशुश्रूषामिति परन्ति मृदवः पौराणिकाः [११] । एवमेव तैः बहुशः प्राचीनपाठनाशनम् ॥ ८ ॥



  1. धर्मनिरता:- ङ.
  2. भीरुङ.
  3. सीमकर्मभि:- ङ.
  4. सर्वकालेपु-ड. भयं श्लोक: नास्ति-झ.
  5. एवं च अन्न आर्तिः स्वभक्षणमेव । तच भक्षकवधमन्तरा न परिहर्तु शक्यं
    प्रति-आतेसंरक्षणार्थमेव रक्षोवधे प्रवृत्तिः, न तु निर्हेतुकतयेति भावः ॥
  6. तै:-ङ,
  7. अभ्यवपद्येति । मनुगृहाणेत्यर्थः, लोण्मध्यम पुरुषैकवचनम्, आर्ष परस्मैपदम् । अभ्यवपत्ति:-अनुग्रह:- गो.
  8. भ्यबपधैते-ड
  9. क्रिया कैङ्क निर्वर्तनोपयोगितया वाचिकर्कङ्कर्य कृत्वा इदं वाक्य-
    अनेन करणद्वयनिष्ठा प्रतिपादिता ॥
  10. चरण-ड.. झ.
  11. गोविन्दराजीये तथैव पाठः ।।