पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११ सर्ग:)
75
माण्डकर्णिकथां रामः मुनिभ्यः श्रुतवान्, पथि



इदमत्यद्भुतं श्रुत्वा सर्वेषां नः, महामुने!
[१]कौतूहलं महज्जातं किमिदं साधु कथ्यताम् ॥ ९ ॥

तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा ।
प्रभवं सरसः कृत्स्नं आख्यातुमुपचक्रमे ।। १० ।

इदं पञ्चाप्सरोनाम तटाकं सार्व [२]कालिकम् ।
निर्मितं तपसा, राम ! मुनिना [३]माण्डकर्णिना ।। ११ ।।

 पञ्च प्सरसां क्रीडासाघनत्वात् पञ्चप्सगेनाम प्रसिद्धम् । सर्व- कालोद कपूर्त्यादिगुणकं सार्वकलिकम् ॥ ११ ॥

स हि तपे तपस्तीव्रं माण्डकर्णिर्महामुनिः ।
दशवर्षसहस्राणि [४] वायुभक्षो [५] जलाश्रयः ॥ १२ ॥

ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः ।
अब्रुवन् वचनं सर्वे परस्परसमागताः ॥ १३ ॥

 अभिरूपेण पुरोगमेन सहिताः साग्निपुरोगमाः ॥ १३ ॥

अस्माकं कस्यचित् स्थानं एष प्रार्थयते मुनिः ।
इति संविग्रमनसः सर्वे ते त्रिदिवौकसः ॥ १४ ॥

 इति संविनमनसः, अभूवन्निति शेषः ॥ १४ ॥



  1. एतदनन्तरं 'वक्तव्यं यदि चेत् विप्र ! नातिगुद्यमपि प्रभो ! इत्यधिकं-ड.
  2. कामिकम्-ड.
  3. नाण्डुकर्णिना-ड..
  4. स्वनि ततडाकजलावगाढ:- गो. वायुभक्ष इति कथनात्- जलाश्रय इत्यत्रा-
    भारत्वं विवक्षितम् । ‘ जलाशये ' इति पाठ्ठे तु अर्थ: स्ष्ट:
  5. जलाशये-ड.. झ.