ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन् ।
भित्वा भिवा शरीराणि ब्राह्मणानां विनिष्पतत् ।। ५९ ।।
मेषवत् नदन् इति । मृतसंजीविनीवैभवात् उदरान्तरिति शेषः । विनिष्पतत् इति । अडभावः आर्षः। विनिर्गत वानिति यावत् । संहत्य- समेत्य ।। ६० ।।
अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा ।
अनुभूय किल श्राद्धे भक्षितः स महासुरः ।। ६१ ॥
देवैः प्रार्थितेन-प्रार्थितासुग्द्वयसंहारेण महर्षिणा अगस्त्येन, श्राद्धे - श्राद्धव्यापारमनुभूय भक्षितः, सः महासुरः- वातापिः ॥ ६१ ।।
तदा संपन्नमित्युक्ता दत्त्वा [३]. हस्तोदकं ततः ।
भ्रातरं निष्क्रमस्वेति चेल्वलः सोऽभ्यभाषत ।। ६२ ।।
तदा - श्राद्धान्ते, संपन्नमित्युक्ता ततः हस्तोदकं च दत्त्वा आतरं निष्क्रमम्वेत्यभाषत ।। ६२ ।।
स तं तथा भाषमाणं आतरं विप्रघातिनम् ।
अब्रवीत् प्रहसन् धीमान् अगस्त्यो मुनिसत्तमः । ६३ ।
तमिति - इल्वलमित्यर्थः ।। ६३ ।।