पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३ सर्गः]
105
अथ तेनाभ्यनुज्ञातः रामः पञ्चवीं ययौ



विदितो ह्येष वृत्तान्तः मम सर्वः तवानघ !
तपपश्च प्रभावन [१] स्नेहात्, दशरथस्य च ॥ १५ ॥

 एष वृत्तान्तः इति । पितुर्वचनपरिपालनाय वनवासवृत्तान्त इत्यर्थः । स्नेहादिति । स्नेहात् विचिचारयिषितो वृत्तान्तश्च तपसः प्रभावेन विदितः इत्यन्वयः | दशरथस्य चेति । वरदानादिमरणान्तो वृत्तान्तश्च विदितः इत्यनुकर्षः ।। १५ ।।

[२]हृदयस्थश्च ते छन्दः विज्ञातस्तपसा मया ।
[३]इह वासं प्रतिज्ञाय मया सह तपोवने ।। १६ ॥
अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति ।

 ते हृदयस्थः छन्दोऽपे मया विज्ञातः इति ऋषेः अनपराघेन अभिकल्पस्यास्य अपराधपरिहाराय आसन्नदेश एव स्थातव्यमित्येवं रूपं अभिप्रायं जानामि । अत एव इह मया सहवासं प्रतिज्ञाय-अलङ्कृतश्च देशोऽयमित्यादि वचनेन अनुज्ञाय स्थितेनापि मया त्वदाशयानुरोधेन अद्य पञ्चवर्टी गच्छेत्यनि ब्रूमि, ईडभावः आगमानित्यत्वात् ॥ १६ ॥

स हि रम्यो वनोद्देशः मैथिली तत्र रस्यते ॥ १७ ।।
स देशः श्लाघनीयच नातिदूरे च, राघव !
गोदावर्याः समीपे च मैथिली तत्र रंस्यते ।। १८ ।।



  1. तपःप्रभावेण पर्यालोचनकरणे निमित्तमाह -- लेहादिति - गो.
  2. अलङ्कृतोऽयं देशश्च' इति मयेह वासे प्रस्तुते 'किं तु व्यादिश मे देशं' इति वदुक्ता चेत्यर्थ: अभिप्राय वेदनकार्य माह-इहेति । यस्मात् स्वदभिप्रायो मया विदितः, अतो हेतोः तपोवने मया सह वासं प्रतिज्ञाय-अनुज्ञाय, तदनन्तरमेव स्वां 'पञ्चवीं गच्छ प्रति ब्रूमि - गो.
  3. एतदनन्तरं - वसन्तं त्वां जनास्सर्वे ज्ञास्यन्ति रघुनन्दन- इत्यधिकम् - ङ..