पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
106
[अरण्यकाण्डः
पञ्चवटीगमनम्



प्राज्यमूलफल चैव नानाद्विजगणायुतः।
विविक्तश्च, महाबाहो ! पुण्यो रम्यस्तथैव च ॥ १९ ॥
भवानपि [१] [२]'सदाचारः शक्तश्च परिरक्षणे ।
अपि चात्र वसन्, राम ! तापसान् पालयिष्यसि ॥ २० ॥

 परिरक्षण इति । तापसानामिति शेषः । भवानपीत्य पिशब्दन स्वीयं तापसरक्षणसामर्थ्य आवेदितम् । अपि चात्रेति । पञ्चवट्याश्रमे इत्यर्थः ॥ २० ॥

एतदालक्ष्यते, वीर ! मधूकानां महद्वनम् ।
उत्तरेणास्य गन्तव्यं न्यग्रोधमभि गच्छता [३]॥ २१ ॥
ततः [४] स्थलमुपारुह्य पर्वतस्याविदूरतः ।
ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः || २२ ||

 अस्योत्तरेण गन्तव्यमिति । अस्येति । मधुकवनस्येत्यर्थः । न्यप्रोषं अभि-उद्दिश्य गच्छता त्वया स्थलमुपारुह्य – निर्वणं देशं प्राप्य ततः पश्चात् कस्यचित् पर्वतस्य अविदूरतः पञ्चवटीत्येवान्वर्थ- नामतया ख्यातः नित्यपुष्पितकाननोद्देशो भवतीति शेषः ॥ २२ ॥

अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह ।
सत्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम् || २३ ||

 सत्कृत्य - प्रदक्षिणनमस्कारादिलक्षणं सत्कारं कृत्वा ॥ २३ ॥



  1. सदारश्चेति पाठे-सदारोऽपि परिरक्षणे शक्तः इत्यर्थः ।
  2. सदारध-ङ.. ज.
  3. अत्र न्यग्रोधमिति पञ्चवटी वा विवक्षिता । 'न्यग्रोधो बहुपाइट: इत्यमरः । पञ्चवटीमुद्दिश्य गच्छता एतन्मधूकवनस्योत्तरेण गन्तव्यमित्यर्थः ।
  4. स्थलं - समभूमि-रा.