पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५ सर्ग.]
117
रमेतेह यथा सीता कुरु सौम्य ! तथाऽऽश्रमम्



 इदं वचनं चिरकालं स्वस्य शुश्रूषासिद्धिप्रार्थनहेतुत्वेन विमृशन्- पर्यालोचयन् ॥ ८ ॥

स तं रुचिरमाक्रम्य [१] देशमाश्रम कर्मणि ।
[२]हस्ते गृहीत्वा हस्तेन रामः सौमित्रिमत्रवीत् ॥ ९ ॥

 हस्तेन - स्वहस्तेन, हस्ते-लक्ष्मणस्य हस्तप्रदेशे इत्यर्थः । अयं भावः स्नेहस्यान्तरङ्गस्य स्वामिभावस्य च प्रदर्शकः ।। ९ ।।

अयं देशः समः श्रीमान् पुष्पितैः तरुभिः वृतः ।
इहाश्रमपदं, [३] सौम्य ! यथावत् कर्तुमर्हसि ।। १० ।।
[४] इयमादित्यसङ्काशैः पद्यैः सुरभिगन्धिभिः ।
अदूरे दृश्यते [५]रम्या पद्मिनी पद्म [६] शोभिता ॥ ११ ॥

 आदित्यसङ्काशैः-तद्वत् ज्वलनैः । पद्मशोभिता पद्मया- श्रिया शोभिता - विराजमाना ॥ ११ ॥

यथाख्यातमगस्त्येन मुनिना भावितात्मना ।
इयं गोदावरी रम्या पुष्पितैः तरुभिर्वृता || १२ ||



  1. आक्रम्य - स्वीयत्वेनाभिमन्य-गो. परिक्रम्येति वा ।
  2. इस्तौ ङ..
  3. रम्यं - ङ.
  4. आदित्यसंकाशै:- सूर्यसदृशैः, रक्तैरित्यर्थ: । पद्मशोभिता- नीलकमलादिभिः शोभिता-रा. आदिस्यसंकाशै:-आदित्यविकसितैः, तद्वदुज्वलैर्वा, ' तुलसीकाननं यत्र यत्र पद्मवनानि च । वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः इत्युक्तरीत्या नित्यसन्निहितहरिमिरिति वा, पद्मया शोभिता-पद्मशोभिता, ‘ड्यापोः संज्ञाछन्दसो: इति द्वस्वः, हरिसान्निध्येन तन्नित्यानपायिन्या
    श्रिया च युक्तेत्यर्थ: - गो. :- रक्तप: पद्मसेविता-श्वेतपद्मयुक्ता-ती. पद्मशोभिता
    पचिनी आदित्यसंकाशैः सुरभिगन्धिभिः पद्मः रम्या अदूरे दृश्यते इति वा । आदौ
    पणशोभितेति सामान्यतो गृहीता पद्मिनी-विशिष्यानिरूपणेन रूपसौगन्ध्यादिभिः रम्या
    वृक्ष्यत इति वाचः प्रवृत्ति: स्यात् ।
  5. पुण्या-ज.
  6. सेविता-ङ.