पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६ सर्ग:] ]
121
तत्रोवास सुखं रामः सीतया लक्ष्मणेन च



भावज्ञेन कृतज्ञेन धर्मज्ञेन च, लक्ष्मण !
त्वया [१] [२]पुत्रेण धर्मात्मा [३] न संवृत्तः पिता मम ॥ २९ ॥

 न संवृत्तः इति । न संस्कृत इति यावत् ॥ २९ ॥

एवं लक्ष्मणमुक्ता तु राघवो लक्ष्मित्रर्धनः ।
तस्मिन् देशे बहुफले न्यवसत् सुसुखं वशी ॥ ३० ॥
कंचित् कालं स धर्मात्मा सीतया लक्ष्मणेन च ।
अन्वास्थमानो न्यवसत् स्वर्गलोके यथाऽमरः || ३१ ।।

 इत्यापें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे पञ्चदशः सर्ग•




 लय (३१) मानः सर्गः ॥ ३१ ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे पञ्चदशः सर्गः


षोडशः सर्गः

[ हेमन्तवर्णनम् ]

[४]सतः तस्य तु सुखं राघवस्य महात्मनः।
शरद्वयपाये हेमन्तः ऋतुरिष्टः [५] प्रवर्तते ॥ १ ॥



  1. नाथेन-पालकेन-ती.
  2. नाथेन-ङ.
  3. न संवृत्तः - न मृतः, किन्तु जीवत्येव ; पितृवदेव त्वया वन्मुखेन पित्रा मम सर्वाभिलषितपूरणात् मम पिता न संवृत्त:-गो. पिता न संवृत्त:-परिपालनादिति भावः - ति. किश्चित्कार्यार्थ स्मृतः । एतेन सकलं कार्य त्वया साथितमिति सूचितम्-रा.
  4. अत्रादौ स सीतया लक्ष्मणेन पक्षिराजा जटायुषा म्यवसत्व
    पचवां वै पूज्यमानो महर्षिभि:- इत्यधिकं-झ.
  5. इष्टः –कामिनीनां, कामिनाम्-ती. तपस्विनां तपरसाधनायेष्ट:, रामस्य तु खरादिराक्षसविजयमूलशूर्पणखागमनहेतुतयेष्ट:-गो. परन्तु 'प्रियो यस्ते'
    (४) इत्यनुपदं वक्ष्यमाणं अवधेयमत्र ।