पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६ सर्ग:]
123
सुखं वसत्सु तेष्वेवं हेमन्तर्तुः समाययें।



 नवेत्यादि । काले-आग्रयणकर्मानुष्ठान काले कृताग्रयणका:- कृताग्रयणकर्माणः- 'आग्रयणकाले नवानां सवनीयानां निर्वपेयुः' इति आश्वलायनोपदिष्टं नवान्नप्राशनाय वर्तव्यं कर्म एवं नवान्नप्राशनार्थ यदाग्रयणं तज्जाः पूजाः तथा, ताभिः पितृदेवताः अभ्यर्च्य सन्तः- साधवः विगतकल्मषा: भवन्त्यद्य ॥ ६ ॥

[१]प्राज्यकामाः जनपदाः संपन्नतरगोरसाः
विचरन्ति महीपालाः [२]. यात्रास्था विजिगीषवः ॥ ७ ॥

 प्राज्यं -भूरि संपन्नः अन्नप्राप्तिकामः येषां ते तथा ॥ ७ ॥

सेवमाने दृढं सूर्ये दिशमन्तकमेविताम् ।
विहीनतिलकेव स्त्री नोत्तरा दिक् प्रकाशते ॥८॥
प्रकृत्या हिमकोशाढ्यः दूरसूर्यश्च सांप्रतम् ।
यथार्थनामा [३]सुव्यक्तं हिमवान् हिमवान् गिरिः ।। ९ ।।

 प्रकृत्या स्वभावेन । हिमकोशैः-घनीभूतहिमसमूहै: आढ्यः । दूरे-दूरदेशे सूर्यः यस्य स तथा ॥ ९ ॥

अत्यन्तसुखसञ्चाराः मध्याह्ने [४] स्पर्शतः सुखाः
दिवसाः सुभगादित्याः [५] छायासलिलदुर्मगाः ॥ १० ॥

 मध्याहे सुखसञ्चाराः मध्याह्ने स्पर्शतः सुखाः । छायाः सलिलानि च दुर्भगानि अनिष्टानि येषु ते तथा ॥ १० ॥



  1. प्राज्यकामा:-समृद्धभोगाः, समृद्धभोगसाधना का | गोरस: - द. धक्षीरादि ।
  2. यात्रार्थ कु. ज. झ
  3. यथार्थनामा-भवेदिति शेषः, न हि चित्रकूटस्थस्य तदर्शनसंभवः ।
  4. पश्यतः- ङ.
  5. छायाः सलिलानि च दुर्भगानि-असेन्यानि-.रा.दुर्भागछायासलिला, आहिताग्न्यादित्वात् परनिपात:- गो.