पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
134
[अरण्यकाण्ड:
शूर्पणखाऽऽगम:



ऋजुबुद्धितया सर्व आख्यातुमुपचक्र मे
[१]अनृतं न हि रामस्य कदाचिदपि संमतम् ॥ १५ ॥
विशेषेणाश्रमस्थस्य समीपे स्त्रीजनस्य च ।
आसीदशरथो नाम राजा त्रिदशविक्रमः ॥ १६ ॥
तस्याहमग्रजः पुत्रः रामो नाम जनैः श्रुतः ।
भ्राताऽयं लक्ष्मणो नाम यवीयान् मामनुव्रतः ॥ १७ ॥
इयं भार्या च वैदेही मम सीतेति विश्रुता ।
नियोगात्तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः ॥ १८ ॥
[२] धर्मार्थ धर्मकांक्षी च वनं वस्तुमिहागतः ।

 यन्त्रितः - नियमितः ।। १८ ।।

त्वां तु वेदितुमिच्छामि [३] कथ्यतां काऽसि [४] कस्य वा ॥
[५] [६] त्वं हि तावन्मनोज्ञाङ्गी राक्षसी प्रतिभासि मे ।
इहवा किं निमित्तं त्वं आगता ब्रूहि तत्वतः ॥ २० ॥

 मनोज्ञाङ्गीति कामरूपवत्त्वादेव । रामदर्शनकाले तथा त्वम् ।।



  1. अयं श्लोकः-अ, पुस्तकें कुण्डलितः ।
  2. धर्मकाङ्की -पितृवाक्यनिर्वहणरूप षर्मामिलाषी, धर्मार्थ-तस्यैव धर्मस्य परिपाल-
    नाय–ती. पितृवाक्यपरिपालनरूपधर्मकाङ्क्षी, धर्मार्थ-तपोरूपधर्मसिद्धधम्–गो. नरेन्द्रस्य
    पितुः, मातुश्च धर्मार्थ नियोगात्-आशात:-धर्मकाङ्क्षी-रा. अथ वा वनवासस्य धर्मार्थत्वं,
    तस्य स्वेच्छा संपादितत्वं च पदद्वयेन कथ्यते ।
  3. कस्य त्वं-ज.
  4. कस्य वा - कस्य वा सम्बन्धिनी पुत्री ?भार्या वा ? इत्यर्थः ।
  5. मनोशाङ्गत्वस्य कामरूपत्वं विनाऽसंभवात्, कामरूपत्वं च राक्षसीस्वं
    मनोशाशी न विना नेति भावः - ति. मनोशाङ्क्षी-राक्षसानां मनोहारिणी-रा. तावत् –– कारख्यैन मां प्रति राक्षसी प्रतिभासि । यद्वा 'राक्षससेविते' इति तद्वचनात्
    राक्षसीत्वमित्याशंक्य परिहरति --'मनोशाङ्गी त्वं राक्षसीति न प्रतिभासि' इति । रामदर्शन-
    काले तथा रूपं कृतवती, कामरूपत्वात् । दुर्मुखीत्यादिकं वास्तवाभिप्रायेण मुनिनोक्तमिति
    ज्ञेयम्- गो. "वस्तुतस्तु पूर्वापरपरामर्श 'मनोशा, अतएव, राक्षसी न प्रतिभासि
    इति नर्मोक्तिरिति युक्तम् ।
  6. न. हिङ, ज.