पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५ सर्ग:]
145
तच्छ्रुत्वाऽमर्षितश्चके खरस्तेषां वधे मतिम्



 [१] उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसि ।
येन त्वं दुर्विनीतेन वने विक्रम्य [२] निर्जिता ॥ १२ ॥

विक्रम्य -शौर्यं कृत्वा । १२ ।।

इति भ्रातुः वचः श्रुत्वा क्रुद्धस्य च विशेषतः । -ber
ततः शूर्पणखा वाक्यं सवाष्पमिदमब्रवीत् ॥ १३ ॥
 [३]तरुणौ रूपसंपनी सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ १४ ।।
फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ ।
पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ [४] ॥ १५ ॥
गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ ।
[५]देवौ वा ' मानुषौ वा तौ न तर्कयितुमुत्सहे ॥ १६ ॥

 देवौ वा इति । यद्यपि दशरथस्य सुताविति ताभ्यां श्रुतं, अथापि तौ मानुषौ देवौ वेति तर्कयितुं नोत्सहे ।। १६ ।।

[६] तरुणी रूपसंपन्नान् सर्वाभरणभूषिता ।
दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा ॥ १७ ॥



  1. ' भयमोहमूर्छितां' (18-26) इति पूर्व कथितत्वात् तदा॑यदुरवस्थां
    विलोक्य खर: एवं वदति ।
  2. निष्कम्य--ङ.
  3. पतादृशदुस्थितावपि रामसौन्दर्य परवशा वदति-तरुणा-नित्यादि ।
  4. 'एतदनन्तरं-'शरण्यौ सर्वसत्वानां श्रेष्ठौ संर्वधनुष्मताम् स्यधिकम्-झ.
  5. 'पुत्रौ दशरथस्यास्तां' इति रामवाक्यस्मरणात् । स्वबुद्धया तु देवौ वित्यादि ।
  6. पूर्व असूयादिना सीतासौन्दर्याप्रकटनेऽपि, अत्र रामस्य पुरतोऽभावात्,
    सीतासौन्दर्याकृष्टत्वात् अवशत: सीतां वर्णयति । अथापि 'तस्याः स्थितत्वादेव किल रामो
    मां तिरश्चकार' इति कोपात्-तस्याश्चानृजुवृत्ताया इति अनुपदं निन्दति ।
    एवं खरस्य सीतायां चापस्योत्पादनायापि तद्वर्णनं स्यात् । अत एव 'तौ हत्वा च तां दुर्वृत्तां अपावर्तितु-महंथ' इति स्खरवचनमपि ।