पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२० सर्ग:]
151
दृड्वा शूर्पणखा तत्तु भीताऽगच्छत खरं पुनः



रुक्मपुङ्खाश्च विशिखाः दीप्ताः हेमविभूषिताः [१].।
ते भित्त्वा रक्षसां वेगात् वृक्षांसि रुधिराप्ताः ॥ १९ ॥
विनिष्पेतुः तदा भूमौ न्यमज्जन्ताशनिखनाः ।

 विनिष्पेतुः-निष्पत्य भूमौ च वेगवशात् न्यमजन्त ॥ १९ ॥

[२] ते भिन्नहृदयाः भूमौ छिन्नमूला इव द्रुमाः || २० |
निपेतुः शोणितार्द्राङ्गाः विकृताः विगतासवः ।
[३] तान् दृष्ट्वा पतितान् भूमौ राक्षसी क्रोधमूर्छिता ॥ २१ ॥
[४] परित्रस्ता पुनस्तत्र व्यसृजत् भैरवस्वनान् ।
सा नदन्ती पुनर्नादं जवात् शूर्पणखा पुनः ॥ २२ ॥
उपगम्य खरं सा तु किंचित् संशुष्कशोणिता ।
पपात पुनरेवार्ता सनिर्यासेव सल्लकी ।। २३ ।।

 सनिर्यासेवेति । किञ्चित् संशुष्कशोणितत्वात् उपमा ॥ २३ ॥

भ्रातुः समीपे शोकार्ता [५] ससर्ज निनदं मुहुः [६]
[७] सखरं मुमुचे बाष्पं [८] विवर्णवदना तदा ॥ २४ ॥
[९]. निपातितान् [१०]दृश्य रणे तु राक्षसान्
प्रधाविता शूर्पणखा पुनः पुनः - ङ. पुनस्ततः ।
वधं च तेषां निखिलेन रक्षसां
शशंस सर्व भगिनी खरस्य सा ॥ २५ ॥

 इत्यापें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे विंशः सर्गः




  1. एतदनन्तरं 'अन्तरिक्षे महोत्कानां बभूवुस्तुल्यदर्शना: ' इति अधिकम्-झ
  2. तैर्भग्रहृदया:- ङ. ज.
  3. अयं श्लोकः झ पुस्तके नास्ति ।
  4. अयं श्लोकः ज पुस्तके कुण्डलितः ।
  5. नष्टसंज्ञाऽभवन्मुहुः-झ.
  6. एतदनन्तरं - ' भूमौ शयाना दुःखार्ता संचाऽभवत्पुनः' इत्यधिकं झ.
  7. सस्वरं - सविलापमिति यावत् |
  8. विषण्ण-ङ
  9. पुन: सर्गार्थ संक्षेपेणाह-निपातिता निति - गो
  10. प्रेक्ष्य-ड..