पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
158
[अरण्यकाण्ड:
खराभिषेणनम्,


[१]तेषां शार्दूलदर्पाणां महास्यानां महौजसाम् ।
सर्वोद्योगमुदीर्णानां रक्षसां, सौम्य ! कारय ॥१०॥

 लोकस्य – त्रैलोक्यस्य प्राणिनः पीडारूपो विहारः यैरेवासाधा- रण्येन, ते तथा । सर्वोद्योगमिति । सर्वप्रकारेण चतुरङ्गबलोपेततया सर्वायुधसामग्रीसमेततया च यः उद्योगः तादृशं उद्योगं कारय ।। १० ।।

उपस्थापय मे क्षिप्रं रथं, सौम्य ! धनूंषि च ।
[२]शरांश्चित्रांच खड्गांश्च शक्तीश्च विविधाः शिताः ॥ ११ ॥
[३]अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम् ।
वधार्थं दुर्विनीतस्य रामस्य [४]रणकोविदः ।। १२ ॥

 पौलस्त्यानां - राक्षसानां अग्रे रामस्य वधार्थं निर्यातुमिच्छामीति योजना ।। १२ ।।

इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम् !
सदश्वैः [५]शबलैः युक्तं आचचक्षेऽथ दूषणः ॥ १३ ॥

 शबलैः– चित्रवर्णैः । आचचक्ष इति । उपस्थित मिति शेषः ॥ १३ ॥

तं मेरुशिखराकारं तप्तकाञ्चनभूषणम् 1
हेमचक्रमसंबाधं वैडूर्यमयकूबरम् ।। १४ ।।
मत्स्यैः पुष्पैः द्रुमैः शैलैः चन्द्रसूर्यैश्च काञ्चनैः ।
[६]. मङ्गल्यैः पक्षिसबैश्च ताराभिरभिसंवृतम् ॥ १५ ॥



  1. इदमर्ध कचित् कुण्डलितम्- ङ.
  2. रथांश्चित्रांश्च - ङ.
  3. शूर्पणखयाऽवमानितत्वात् - अहमेव प्रथमं गच्छामीत्याह ।
  4. रणमूर्धनि - ङ.
  5. सबलै:- ङ.
  6. मंगल:--ङ