पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
172
[अरण्यकाण्ड:
रामसमुद्यमः



स चापमुद्यम्य महत् शरानादाय वीर्यवान् ।
बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन् दिशः ॥ १८॥
ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः ।
समेयुश्च महात्मानः युद्धदर्शनकांक्षिणः ॥ १९ ॥
ऋषयश्च महात्मानः [१] लोके ब्रह्मर्षिसत्तमाः ।
समेत्य चोचुः सहिताः अन्योन्यं पुण्यकर्मणः ॥ २०॥

 लोके ब्रह्मर्षिसत्तमाः – त्रैलोक्येऽपि ब्रह्मर्षित्वेन प्रसिद्धाः ऋषयः भृग्वादय इत्यर्थः ॥ २० ॥

स्वस्ति गोब्राह्मणानां तु [२] लोकानां येऽभिसङ्गताः ।
जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान् ॥ २१ ॥
[३]चक्रहस्तो यथा युद्धे सर्वान् असुरपुङ्गवान् [४]
एवमुक्ता पुनः प्रोचुः आलोक्य च परस्परम् ॥ २२ ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।
एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति १ ॥ २३ ॥

 गोब्राह्मणानामित्यादौ संबन्धसामान्ये षष्ठी आर्षी ॥ २३ ॥

[५] इति || राजर्षयः सिद्धाः सगणाच द्विजर्षभाः ।
जातकौतूहलाः तस्थुः विमानस्थाश्च देवताः ॥ २४ ॥

 सगणाः - विद्याघरादिदशदेवयोनिगणसहिताः ।। २४ ॥



  1. 'लोके' इति इतरत्राप्यन्वेति ।
  2. ये लोकानां अभिसङ्गताः— अनुकूला:,तेभ्योऽपि स्वस्त्यस्तु - गो.
  3. चक्रहस्त:- इत्यत्र विष्णुरिति विशेष्यम् । तैः रामस्वरूपपरिज्ञानात् देवरहस्यस्य गोपनीयत्वात् नाधिकं किञ्चिदुक्तं विशेध्यादिकम् ।
  4. एतदनन्तरं - "एतच्चान्यश्च बहवः ब्रुवाणा: परमर्षयः” इत्यधिकं - ङ.
  5. इतिप्रो चुरित्यन्वयः | || राजर्षय: – देवत्वं प्राप्ताः । यद्वा - वानप्रस्थीभूताः- गो..