आविष्टं तेजसा रामं संग्रामशिरसि स्थितम् ।
दृष्ट्वा सर्वाणि भूतानि भयात् विव्यथिरे तदा ॥ २५ ॥
आविष्टं तेजसेति । वैराजेन वैष्णवेन क्षात्रेण तेजसा इति यावत् । एतेन सहजस्वभावः भगवतः ब्राह्म एव, क्षात्रस्तु स्वेच्छया कार्याय भगवता स्वीक्रियते इति स्पष्टम् । अत एव भूतानि मयात् विव्यथिरे इति ॥ २५ ॥
रूपमप्रतिमं तस्य [१]रामस्याक्लिष्टकर्मणः ।
बभूव रूपं क्रुद्धस्य रुद्रस्येव [२]पिनाकिनः ॥ २६ ॥
इति संभाष्यमाणे तु देवगन्धर्वचारणैः ।
ततो गम्भीरनिदं घोर [३]वर्मायुधध्वजम् ।। २७ ।।
अनीकं यातुधानानां समन्तात् [४]'प्रत्यदृश्यत |
'सिंहनादं विसृजतां अन्योन्यमभिगर्जताम् ॥ २८ ॥
चापानि विष्फारयतां जृम्भतां च पुनः पुनः ।
[५]विप्रघुष्टस्वनानां च दुन्दुमश्चापि निघ्नताम् ॥ २९ ॥
तेषां [६].सुतुमुलः शब्दः पूरयामास तद्वनम् ।
जृम्भतां च पुनः पुनरिति । देहचिन्ताराहित्येन युद्धप्रवृत्तये मदकरद्रव्य स्वीकारजं जृम्भणम् । विप्रधुष्टेति । अविशब्द नार्थत्वात् अनिट् ॥ २९ ॥