पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
174
(अरण्यकाण्ड:
रामसमुद्यमः



तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः ॥ ३० ॥
दुद्रुवुर्यत्र निःशब्दं पृष्ठतो नावलोकयन् ।

 पृष्ठतो नावलोकयन् इति । पृष्ठभागानवलोकनं भीतिवशात्, [१] प्रिद्रवन्तः श्वापदाः इत्यनुकर्षः ॥ ३० ॥

[२] तस्वनीकं महावेगं रामं समुपसर्पत ॥ ३१ ॥
घृतनानाप्रहरणं गम्भीरं सागरोपमम् ।
रामोऽपि चारयन् चक्षुः [३] सर्वतो रणपण्डितः ॥ ३२ ॥
ददर्श खरसैन्यं तत् युद्धाभिमुखमुत्थितम् ।
[४]
[५]वितत्य च धनुर्भीमं तूण्योश्रोद्धृत्य सायकान् ॥ ३३ ॥
क्रोधमाहारयत् तीव्रं || वधार्थं सर्वरक्षसाम् ।

 क्रोघं आहारयत् – प्राप्तवानित्यर्थः । तथाऽत्र सर्वत्र ॥ ३३ ॥

दुष्प्रेक्षः सोऽभवत् क्रुद्धः युगान्ताग्निरिव ज्वलन् ॥ ३४ ॥
तं दृष्ट्वा तेजसाऽऽविष्टं प्राव्यथन् वनदेवताः ।

 प्राव्यथन् -- प्राव्यथन्तेति यावत् ॥ ३४ ॥

तस्य [६] क्रुद्धस्य रूपं तु रामस्य ददृशे तदा ।। ३५ ।।



  1. प्रद्रवन्त इत्यर्थानुकर्षणम् |
  2. गस्वानीकं-ड.
  3. चक्षुः सर्वतश्चारयन्नित्यन्वयः ।
  4. वितत्य - किश्चिद्वाण-विसर्पणं कृत्वेत्यर्थः, 'विततं सहतस्येषोः किञ्चिदेव विसर्पणम्' इति वैजयन्ती-गो.|| सर्वरक्षसां बधार्थ-सर्वरक्षोवधद्वारत्वादस्य युद्धस्येति भाव:- ति.
  5. विनम्य च,
  6. सज्यं कृत्वा-ङ..