पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
184
[अरण्यकाण्ड:
दूषणादिवध:



[१] तान् दृष्ट्वा निहतान् सर्वे राक्षसाः परम/तुराः ।
न तत्र चलितुं शक्ताः रामं परपुरञ्जयम् [२]॥ ४६ ॥


 इत्याषें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे पश्चविंशः सर्गः


तीव्र (४६) मानः सर्गः ॥ ४६ ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे पञ्चविंशः सर्गः


षड्विंशः सर्गः

[दूषणादिवध:]

दूषणस्तु [३] स्वकं सैन्यं हन्यमानं निरीक्ष्य सः ।
संदिदेश महाबाहुः भीमवेगान् दुरासदान् ॥ १ ॥

 राक्षसान् [४] पञ्चसाहस्रान् समरेष्वनिवर्तिनः ।

 अथ दूषणवघः । दूषण स्त्वित्यादि । पञ्चसाहस्रानित्यनेन अर्थात् नवसाहस्री हतेत्यवगम्यते ।। १ ।।

ते शृलैः पड्डिशैः खड्गैः शिलावर्षैः दुमैरपि ॥ २ ॥
शरवर्षैर विच्छिन्नं ववृषुस्तं समन्ततः ।
स द्रुमाणां शिलानां च वर्ष प्राणहरं महत् ॥ ३ ॥



  1. तिलककतकयोः प्रायस्तुल्यपाठत्वात् तिलकानुरोधेनायं लोकोऽत्र
    योजितः । रामं चलितुं – रामं प्रति संमुख गन्तुम्' इति च-ति. व्याख्यातम् । चलितुं-
    चालयितुं - कम्पयितुं इति वाऽर्थः ॥
  2. पतदनन्तरं " बलावशेषं तु निरस्तमाहवे खराधिकं राक्षसदुर्बलं बलम् । जधान रामं स्थिरधर्मपौरुषः धनुर्बलैरप्रतिवारणैः शरैः ॥”- इत्यधिकम् - ङ.
  3. दूषणस्य सेनापतित्वेन 'स्वकं सैन्यं 'इत्युक्तिः ।
  4. पञ्चसाहस्रानित्यनेन पञ्चसाहस्री पूर्वे इतेति व्यन्यते- गो.