पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७ सर्ग:]
198
शिरीस्यपातयद्राम: सामर्ष: तस्य रक्षसः



एवमुक्ता तु संरब्धः शरानाशीविषोषमान् ।। १३ ।।
त्रिशिरोवक्षसि क्रुद्धः [१]निजधान चतुर्दश ।
चतुर्भिस्तुरगानस्य शरैः [२] संनतपर्वभिः ।
न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः ॥ १४ ॥

 वाजिनः तुरगानिति । वाजः - जवः । वेगवतोऽश्वानित्यर्थः ॥

अष्टभिः सायकैः सूतं [३]रथोपस्थात् न्यपातयत् ।
रामः चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् ।। १५ ।।
ततो हतरथात् तस्मात् उत्पतन्तं निशाचरम् ।
[४]बिभेद रामः तं बाणैः हृदये सोऽभवजडः ।। १६ ।।

 इतरथादिति । हतहयसारथिकोऽपि रथः इतरथः । उत्पतन्त-मिति । तदवस्थमैवेत्यर्थः । सोऽभवज्जड इति । आयुधान्तरग्रह इति शेषः ॥ १६ ॥

सायकैश्चाश्रमेयात्मा सामचेः तस्य रवसा
शिरांस्यपातयत् [५]रामः वेगवद्भिः त्रिभिः [६]शितैः ॥ १७॥
[७] स भूमौ रुधिरोद्गारी रामबाणाभिपीडितः ।
[८]न्यपतत् पतितैः पूर्व
[९] स्वशिरोभिः निशाचरः ॥ १८ ॥



  1. निवखान-ङ,
  2. संनतपर्वभिः - ऋजुपर्वभिः- गो. सम्यक् तक्षणादिना ऋक्ष्णपर्वमिरित्यर्थः ।
  3. रथोपस्थे च. ज.
  4. चिच्छेद-च. ज.
  5. श्रीणि -च. ज.
  6. शरैः-च. ज.
  7. सधूमश्शोणितोद्वारी-ज
  8. पूर्व पतितै: स्वशिरोभिरुपलक्षितः निशाचरः न्यपतदित्यन्वयः । पूर्वं शिरांसि पतितानि,
    पश्चात् निशाचरः पतित इति भावः ।
  9. समरस्थः -च