पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
212
[अरण्यकाण्डः
खरसंहार:



ततः पावकमङ्काशं वधाय समरे शरम् ॥ २४ ॥
[१] खरस्य रामो जग्राह [२]ब्रह्मदण्ड [३] मिवापरम् ।

 एवं इदानीं अतिसङ्कटकाले सहजशक्तिप्ररिग्रहादेव निर्वाहं दर्शयति — तत इत्यादि ॥ २४ ॥

[४] स तं दत्तं मघवता सुरराजेन धीमता ॥ २५ ॥
संदधे चापि धर्मात्मा मुमोच च खरं प्रति ।

 सः--रामः । मघवता दत्तं- -अगस्त्यद्वारा प्रदानाय दत्त अन्वर्थब्रह्मदत्तं ब्रह्मास्त्रवदमोघं शरं संदधे-मुमोच च ।। २५ ।।

स हि मुक्तो महावाणः निर्घातसमनिःस्वनः ॥ २६ ॥
रामेण धनुरायम्य खरस्योपरि चापतत् ।

 धनुरायम्य मुक्तः इत्यन्वयः । खरस्योपरि चापतत् इति पाङ्कः ।

स पपात खरो भूमौ दह्यमानः शराग्निना ॥ २७ ॥
[५] रुद्रेणेव विनिर्दग्धः श्वेतारण्ये [६] यथाऽन्धकः ।



  1. खरस्य वधायेत्यन्वयः ।
  2. ब्रह्मदण्डं-ब्रह्मशापम् - गो.
  3. मिवोबतम्-ड.
  4. दत्तं, अगस्त मुखेनेति शेष:-गो.
  5. रुद्रेण-रुद्रनेत्राग्निना दग्ध: अन्तक इव,श्वेतारण्ये इव भूमौ पपात-गो. वेतारण्ये यथाऽन्धकः । अन्धकासुर: श्वेतारा रुद्रेण इन इति (हरिवंशादि) पुराणप्रसिद्धम् । रुद्रेणेवेति- इवशब्दो वाक्यालङ्कारे श्वेतारण्ये यथान्तक इति प्रचुरः पाठः । तत्र कावेरीतीरवर्तिनि श्वेताख्ये मार्कण्डेयचि जीवित्वाय अन्तकसंहारो रुद्रेण कृत इति तन्माहात्म्ये प्रसिद्धि: । कौमें तूत्तरखण्डे श्वेत राजर्षे: परमशैवस्य कालअरे पर्वते तपस्यमिरतस्य मारणायागतस्यान्तकस्य शि
    वामपादप्रहारेण संहार: कृत इति षटत्रिंशेऽध्याये उक्तम्-ति.
  6. यथाऽन्तकः-ङ.