पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
218
[अरण्यकाण्ड:
रावणाकम्पन संवाद:



दहेयमपि संक्रुद्धः तेजसाऽऽदित्यपावकौ [१]।।
वातस्य तरसा वेगं निहन्तुमहमुत्सहे ॥ ७ ॥

 निहन्तुमिति | भमित्यर्थः । आदित्यपावकाविति । उमावपि युगपदिति शेषः ॥ ७ ॥

तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः ।
भयात् [२] संदिग्धया वाचा रावणं याचतेऽभयम् ॥ ८॥

 संदिग्घया - संदिग्घार्थया ॥ ८ ॥

[३] दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः ।
स विश्रब्धोऽब्रवीद्वाक्यं असंदिग्धमकम्पनः ॥ ९ ॥
पुत्रो दशरथस्यास्ति सिंहसंहननो युवा ।
रामो नाम [४] वृषस्कन्धः वृत्तायतमहाभुजः । १० ।।
[५] वीरः पृथुयशाः श्रीमान् अतुल्यबलविक्रमः ।
[६] हतं तेन जनस्थानं, खरव सहदूषणः [७]॥ ११ ॥

 अतुल्यं - केनाऽपि तुलनानहँ बलं विक्रमश्च यस्य स तथा ॥ ११ ॥

अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः ।
[८] नागेन्द्र इव निःश्वस्य वचनं चेदमब्रवीत् ॥ १२ ॥

 नागेन्द्र :- सर्पश्रेष्ठः ॥ १२ ॥



  1. आदित्यपावको, परस्परसाहाय्येन संयुक्तावपीत्यर्थः, अतो (दहेयमपि पावकम् इत्यनेन) न पौनरुक्ति:-गो.
  2. सन्दिग्धया-सन्दिग्धाक्षरया-गो
  3. शत्रुपराक्रमस्य रावणपुरतः प्रशंसनस्य रावणापमानने विश्रान्त्या तेन किं वा भवेदिति भीताय अकम्पनाय अभयं ददौ रावणः । अत एव धैर्येण रामपराक्रमं वर्णयति अकम्पनः ।
  4. महास्कन्धः-ज.
  5. श्याम: - ज.
  6. इतस्तेन जनस्थाने-ज.
  7. सहदूषण: खरब हत इति विपरिणाम: । प्राधान्यात् पृथग्व्यपदेशः ।
  8. मृगेन्द्र - ङ,