एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३ सर्ग:]
231
न बुध्यसे भयं घोरं प्रमत्तस्त्वं हि रावण' ।
इत्याषें श्रीमद्रामायणे वाग्मीकीये अरण्यकाण्डे द्वात्रिंशः सर्गः
अभिगम्याब्रवीदित्यस्यैव विवरणभूतोत्तरसर्गसंक्षेपः-तमब्रवीदि- त्यादि । प्रदर्शयित्वेति । स्वकं वैरूप्यमिति शेषः। अभीततया सर्वपुरुषेषु सर्वलोकेषु च चारः यस्याः सा तथा । शर (२५) मानः सर्गः ॥ २५ ॥
इति श्रीमद्रामायणामृतकतकटीकार्या अरण्यकाण्डे द्वात्रिंशः सर्गः
त्रयस्त्रिंशः सर्गः |
[रावणोपालम्भः] |
अथ शूर्पणखाया: रावणे पारुण्यम् । तत इत्यादि ॥ १ ॥
प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः !
समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे ॥ २ ॥