पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३ सर्ग:]
233
नाश्रौपी: नैकसाइखरक्षसां इननं मृधे ?



[१]आत्मविद्भिः विगृह्य त्वं देवगन्धर्वदानवैः ।
अयुक्तचारः चपलः कथं राजा भविष्यसि ॥ ७ ॥

 आत्मविद्भिः- विवशीकृतबहिरन्तःकरणैः अयुक्तचारः । व्याकृतचरः ॥ ७ ॥

त्वं तु बालस्वभावश्च बुद्धिहीनच, राक्षस !
ज्ञातव्यं तु न जानीषे कथं राजा भविष्यसि ॥ ८ ॥
येषां चाराश्च कोशश्च नयश्च, जयतां वर !
अस्वाधीनाः नरेन्द्राणां प्राकृतैस्ते जनैस्समाः ॥ ९ ॥

 प्राकृतैर्जनैरिति । राज्यव्यवहारानईदासदासीजनैः इत्यर्थः ॥

यस्मात् पश्यन्ति दूरस्थान् सर्वानर्थान् नराधिपाः |
चारेण तस्मादुच्यन्ते राजानो दीर्वचक्षुषः ॥ १० ॥

 यस्मात्तस्माच्छब्दौ हेतू ।। १० ।

अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम् । श्री
[२] स्वजनं तु [३]जनस्थानं हतं यो नावबुध्यसे ।। ११ ।।
चतुर्दशसहस्राणि रक्षसां [४] क्रूरकर्मणाम्
हतान्येकेन रामेण खरच सहदूषण:॥१२॥
ऋषीणामभयं दत्तं कृतक्षेमाश्र दण्डकाः ।
घर्षितं च जनस्थानं रामेणाक्लिष्ट [५]कर्मणा ॥ १३ ॥



  1. बच्वद्भिः सह विरोधं संपादितवता हि सदा जागरूकेन भवितव्यमित्याशयः
  2. स्वजनं—स्वस्य जनाः यस्मिंस्तव --ति.
  3. जनस्थाने-ङ. यतः स्थानं-ज.
  4. भीम-ज.
  5. कारिणा-ज.