पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
.३३ सर्ग:]center=विपत्स्यते हि निश्वार: किंप्रभु: कामलम्पट :
235
 



[१] [२] उपभुक्तं यथा वासः स्रजो वा मृदिताः यथा ।
एवं राज्यात् परिभ्रष्टः समर्थोऽपि निरर्थकः ॥ १९ ॥
अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः ।
कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ॥ २० ॥

 सर्वज्ञः इति । स्वपरसर्ववृतान्तज्ञः इत्यर्थः । चिरमिति | " अकमकाच्च" इति आत्मनेपदम् ॥ २० ॥

नयनाभ्यां प्रसुप्तोऽपि जागर्ति नयचक्षुषा ।
[३] व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः ॥ २१ ॥
[४] त्व तु, रावण ! दुर्बुद्धिः गुणैरेतैः विवर्जितः ।
यस्य तेऽविदितश्चारैः रक्षसां सुमहान् वधः ॥ २२ ॥

यस्य ते अविदितः इति । गतिबुद्धि' इत्यादिना वर्तमाने क्तः । क्तस्य च वर्तमाने' इति षष्ठी । येन त्वया न ज्ञायते इत्यर्थः ॥ २२ ॥

परावमन्ता विषयेषु [५]सङ्गतः
न देशकालप्रविभागतच्चवित् ।
अयुक्तबुद्धिः गुणदोषनिश्चये
विपन्नराज्यो न चिराद्विपत्स्य से || २३ ||

 पररावमन्ता – शत्रुषूदासीनः ।। २३ ।।



  1. अम्लाना सुगन्धिन्यपि परोपभुक्ता भ्रष्टा स्रकू यथा न कार्यान्तरोपयोगिनी,
    तथा समर्थोऽपि राजा राज्याद्भष्ट: निरर्थक एवेत्यर्थः ।
  2. उपयुक्तं - ङ..
  3. क्रोधप्रसादयोः व्यक्तत्वं इण्डदानादिना ।
  4. यद्यण्यकम्पनमुखात् विदित एव वृत्तान्तः; तथाऽपि तइजानन्ती सूर्पणखा एवं वदति। तादृशो महान् वध: यदि ज्ञात: स्यात्, तदा हि राशः औदासी- म्यादिकं सर्वथा न संभवीति भावनयाऽपि तथा वदति।
  5. सङ्गवान्-ड..