पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
244
अरण्यकाण्ड:
मारीचाश्रमपुनर्गमनम्


दिव्याभरणमाल्याभिः दिव्यरूपाभिरावृतम् ।
क्रीड [१]रतिविधिज्ञाभिः अप्सरोभिः सहस्रशः ॥ १६ ॥
सेवितं देवपत्नीभिः श्रीमतीभिः [२] श्रिया वृतम् ।
देवदानवसंघैच चरितं [३] त्वमृताशिभिः १७ ॥

 अमृतमशितुं शीलमस्त्येषामिति अमृताशिनः तैः ॥ १७ ॥

हंसक्रौञ्चलवाकीर्ण सारसैः [४]संप्रणादितम् ।
वैडूर्यप्रस्तरं [५]रम्यं स्निग्धं सागरतेजसा [६] । १८ ।।

 प्लवा: - मण्डूका: [७] वैडूर्याभा: श्यामा प्रस्तराः यस्मिन् अनूपे स तथा । सागरतेजसा- सागरोभिवेन । स्निग्धं-सान्द्रम् -शीतलम् ॥ १८ ॥

पाण्डराणि विशालानि दिव्यमाल्ययुतानि च ।
तूर्यगीताभिजुष्टानि विमानानि समन्ततः ।। १९ ।।
तपसा जितलोकानां कामगान्यभिसंपतन् ।
गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः ॥ २० ॥

 उच्यमान विशेषणकानि विमानान्यपि संपतन्- गच्छन् मार्गवशात् ददर्शेत्यग्रेण संबन्धः ॥ २० ॥

निर्यासरसमूलानां चन्दनानां सहस्रशः ।
वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च ॥ २१ ॥

  1. रस-ड: रीति-ज.
  2. उपासितम्-ज.
  3. 'अमृताशिभिः देवैश्वेति शेषः । यद्वा ऋतामृताभ्यां जीवेतेत्युक्तायाचितलब्धा-
    शिभिः । 'ऋतमुन्छशिलं प्रोक्तं अमृतं स्यादयाचितम्' इति मनु:- गो.
  4. संप्रसादितम्-ज.
  5. दिव्यं-ङ.
  6. एतादृशं सागरानूरमवलोकयन् विमानानि ददर्शेत्यन्वयः ।
  7. प्लवा: - जलकाका वा ।