पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
left
right
center

248 मारी चाश्रम पुनर्गमनम् तत्र कृष्णाजिनघरं जटा'वल्कलधारिणम् । ददर्श नियताहारं मारीचं नाम राक्षसम् ॥ ३८ ॥ स रावणः समागम्य विधिवत्तेन रक्षसा | मारीचेनार्चितो राजा सर्वकामैरमानुषैः ॥ ३९ ॥ सर्वकामैः—अभिलषितसर्वभोग्यवस्तुभिः अर्चितो बभूवेति शेषः ।। ३९ ।। तं स्वयं पूजयित्वा तु " भोजनेनोदकेन च । अर्थोपहितया 'वाचा मारीचो वाक्यमब्रवीत् ॥ ४० ।। अनुष्ठितपूजानुवादपूर्वं मारीचकर्तृकं कुशलप्रश्नं दर्शयति–तं स्वयमित्यादि ॥ ४० ॥ कच्चित् सुकुशलं, राजन् ! लङ्कायां राक्षसेश्वर ! केनार्थेन पुनस्त्वं वै तूर्णमेवमिहागतः ॥ ४१ ।। अरण्यकाण्ड एवमुक्तो महातेजाः मारीचेन स रावणः । तं तु पश्चादिदं वाक्यं अब्रवीद्वाक्यकोविदः ॥ ४२ ॥ इत्यायें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे पञ्चत्रिंशः सर्गः इदमिति । अग्रिमसर्गवक्ष्यमाणम् । घोर (४२) मानः सर्गः ॥ इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे पञ्चत्रिंशः सर्गः jun

  • कृष्णाजिनेत्यादिना रामभक्ततया जनितवैराग्यचिह्नोक्ति:-गणे.

उत्तरसर्गे वक्ष्यमाणम्- गो. मण्डल-ज. 2 भाजनेनासनेन च-ड.. 'बुद्धय!-ड.. + इदं-