पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
284
[अरण्यकाण्ड:
सौवर्णमृगदर्शनम्

 मणिप्रवराकारं— इन्द्रनीलरत्नाकारं शृङ्गं यस्य स तथा । मणि- शब्द: केवल इन्द्रनीले कविसमयप्रयोगः । क्वचित् सिता क्वचित् असिता च मुखाकृतिः - मुखशोभा यस्य स तथा । मधूक पुष्पनिभे पार्श्वे यस्य स तथा। कलं-पद्मं तस्य किञ्जरकः-केसरः तत्संनिभः तथा ॥ १५-१९ ॥

वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत्
मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः ।। २० ।।
प्रलोभनार्थं वैदेह्याः नानाधातुविचित्रितम् |
[१]विचरन् गच्छते तस्मात् शादूलानि समन्ततः ।। २१ ।।

 प्रज्वलयन्– दीपयन् ॥ २०-२१ ॥

रूप्यैः विन्दुशतैश्चित्रः भूत्वा स प्रियदर्शनः ।
विटपीनां किसलयान् [२] भक्ताऽदन् विचचार ह ॥ २२ ॥

 भक्तेति । 'जान्तनशां विभाषा' इत्यनुनासिकलोपः ॥ २२ ॥

[३]कदलीगृहकं गत्वा कर्णिकारान् इतस्ततः ।
समाश्रयन् [४] मन्दगतिः [५] सीतासन्दर्शनं तथा ॥ २३ ॥
राजीवचित्रपृष्ठः सः विरराज [६]महामृगः ।
रामाश्रमपदाभ्याशे विचचार यथासुखम् ॥ २४ ॥

 कदलीगृहं कदलीवनान्तर्गतसूक्ष्मगृहम् । सीतासंदर्शनमपेक्ष्य इतस्ततो मन्दगति समाश्रयन् ॥ २३-२४ ॥

पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः ।
गत्वा मुहूर्त त्वरया पुनः प्रतिनिवर्तते ।। २५ ।।


  1. विचरंथ वनं सर्व--ङ.
  2. भङ्क्ङ्का-ङ.
  3. कदलीगृहकं — कृत्रिमकदलीमयगृहं-गो.
  4. मन्दगति - ज.
  5. सीता संदृश्यतेऽस्मिन्निति सीतासन्दर्शनं, अधिकरणे ल्युट्, सीतासन्दर्शनयोग्यस्थानं समाश्रयन्- गो.
  6. मृगोत्तम: - ज.