पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
2
[अरण्यकाण्डः
मुनिगणशरणागतिः



 तापसैरुग्दर्शित मार्गेणेति शेषः । दण्डकारण्यसंज्ञकं महारण्यम् । दण्डकस्य राज्ञः महाराष्ट्रदेश: शुकशापवशात् अरण्यमभूत् । ततः प्रभृति स देशः दण्डकारण्यसंज्ञित: प्राय: इदानीन्तनमहाराष्ट्रदेश एव दण्डकारण्यमिति-ति. एतत्कथा उत्तरकाण्डे 79, 80, 81 सर्गेषु द्रष्टव्या । आत्मवान् - स्वायत्तचित्तादि- त्रिपरिकरः । अत एव दुर्धर्षः- अशक्यरक्षोऽसुराक्रमः । मण्डलं-समूहः । मण्डलवत् अविदूकदेशसहित बहुवस्तुस्वात् मण्डलवाच्यत्वम् ॥ १ ॥

कुशचीरपरिक्षिप्तं [१]. ब्रह्मलक्ष्म्या समावृतम् ।
यथा प्रदीप्तं [२]. दुर्धर्षं [३].गगने सूर्यमण्डलम् || २ ||

 आश्रममण्डलमेव वर्णयते – कुशेत्यादि । परिक्षिप्तं - व्याप्तम् । ब्रह्मविद्यानुष्ठानजा लक्ष्मीः ब्रह्मलक्ष्मीः, तथा समन्वितत्वादेव गगनाधि- करणसूर्यमण्डलवत् दुर्धर्षं, व्याकृतार्थम् ॥ २ ॥

शरण्यं सर्वभूतानां [४] सुसंमृष्टाजिरं सदा ।
मृगैः बहुभिराकीण पक्षितः समावृतम् || ३ ||

 शरण्यं - आवासार्ह सर्वभयत्राणाई च, तदर्हतीति यत् । 'शरणं गृहरक्षित्रोः' ॥ ३ ॥

सुपूजितं [५]. चोपनृत्तं नित्यमप्सरसां गणैः ।
विशालैरग्निशरणैः स्रुग्भाण्डैः अजिनैः कुशैः ॥ ४ ॥

 अप्सरसां गणैः उपनृत्तं- उप-समीपे नर्तनवत् । मत्वर्थीया- जन्ता बहुव्रीहिर्वा, अतिमनोरमप्रदेशत्वात् । अतः एतैः सुपूजितं-



  1. ब्राह्मया लक्ष्म्या-ड.. ज
  2. दुर्दर्श-ङ
  3. गगनमध्यस्थमित्यर्थः, तद्वद्रक्षोभिरनभिभवनीयम् ।
    उदयास्तमयथोर्हि सूर्यस्य मन्देहास्यरक्षोभिराक्रमणं, न तु मध्याहे- गो
  4. अलङ्कृत- प्राङ्गणम् - ति.
  5. प्रनृतं च-ङ