पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
322
अरण्यकाण्ड:
रावणप्रलोसनम्

तथेत्युक्ता च तां रामः कैकेयीमकुतोभयः ॥ १६ ॥
करतद्वचः तस्याः मम भर्ता दृढव्रतः ।
दद्यान्न प्रतिगृह्णीयात् सत्यं ब्रूयान्न चानृतम् ॥ १७ ।।
एतद् चाह्मण ! रामस्य [१]ध्रुवं व्रतमनुत्तमम् ।
तस्य भ्राता तु [२] [३] वैमात्रः लक्ष्मणो नाम वीर्यवान् ||
रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा ।

 वैमात्र इति । विभिन्नायाः मातुरपत्यं वैमात्रः । मातृशब्दस्य स्वस्रादित्वेन स्त्रीप्रत्ययाभावात् न ठक् । असंख्यादिपूर्वस्वात् नापि " मातुरुन्" इत्युत् अतः केवलं आपत्योऽण् मिन्नोदर- श्रावेत्यर्थः ।। १८ ॥

स भ्राता लक्ष्मणो नाम [४]धर्मचारी दृढव्रतः ॥ १९ ॥
अन्वगच्छत् धनुष्पाणिः प्रव्रजन्तं [५] मिया सह ।
जटी तापसरूपेण मया सह सहानुजः ॥ २० ॥
प्रविष्टो दण्डकारण्यं धर्मनित्यो [६] जितेन्द्रियः ।
ते वयं प्रच्युता राज्यात् कैकेय्यास्तु कृते त्रयः ॥ २१ ॥
विचराम, द्विजश्रेष्ठ! वनं गम्भीर मोजसा [७]
समाश्वस मुहूर्त तु शक्यं वस्तुमिह त्वया ॥ २२ ॥
आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् [८] |
तु समाश्वत विश्रान्ति कुर्वित्यर्थः ॥ २२ ॥


  1. व्रतं धू-ज.
  2. द्वयोर्मात्रोरपस्यं पुमान् द्वैमात्र:- गो सापत्नीकमातुः पुत्र इत्यर्थः-ती
  3. द्वमात्रः-ड.
  4. ब्रह्मचारी- ज.
  5. मयासह अन्वगच्छदित्यन्वयः - गो.
  6. दृढव्रत:-ज
  7. ओजसा - स्ववीर्येण-रा.
  8. मतदनन्तरं "रुरून गोधान् वराहांश्च इत्वाऽऽदाया मिषं बहु ।" इत्यधिकं - ज.